अथर्ववेदः/काण्डं १९/सूक्तम् ५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १९.५२ अथर्ववेदः - काण्डं १९
सूक्तं १९.५३
भृगुः
सूक्तं १९.५४ →
दे. कालः। अनुष्टुप्, - - - -

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।
स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।
पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।
काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
कालो भूतिमसृजत काले तपति सूर्यः ।
काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
काले मनः काले प्राणः काले नाम समाहितम् ।
कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।
कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।
स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥

सायणभाष्यम्

‘कालो अश्वो वहति' इति सूक्तद्वयस्य सौवर्णभूमिदाने आज्यहोमे विनियोगः । उक्तं हि परिशिष्टे - ‘अन्वारभ्याथ जुहुयात् । कामसूक्तं कालसूक्तं पुरुषसूक्तम् Xxx। अथ सुवर्णमयी भूमिम्' ( अप १०,१,६; ८ ) इति । कालप्रतिपादकत्वात् कालसूक्तम् इत्युच्यते ।


कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।

तमा रोहन्ति कवय विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥ १ ॥

कालः । अश्वः । वहति । सप्तऽरश्मिः । सहस्रऽअक्षः । अजरः । भूरिऽरेताः ।।

तम् । आ । रोहन्ति । कवयः । विपःऽचितः । तस्य । चक्रा । भुवनानि । विश्वा ॥१॥

अनेन सूक्तद्वयेन सर्वजगत्कारणभूतः कालरूपः परमात्मा स्तूयते । तत्र प्रथमया कालोऽश्वात्मना रूप्यते । “सप्तरश्मिः सप्तसंख्याका रश्मयो रज्जवो मुखग्रीवापादावबद्धा यस्य सः “सहस्राक्षः सहस्रलोचनः “अजरः जरारहितः नित्ययुवा “भूरिरेताः । रेतः शुक्ररूपः सप्तमो धातुः । प्रभूतवीर्यः रेतःसेचनसमर्थः अपत्योत्पादनशक्तः “कालः कलयिता “अश्वो “वहति स्वारोहकान् अभिमतं प्रदेशं प्रापयति । तम् अश्वं “विपश्चितः अश्वारोहणावरोहणादिषु कुशला अश्वशास्त्रनिष्णाताः “कवयो धीमन्तः “आ “रोहन्ति । “तस्य अश्वस्य “चक्रा चक्राणि । ‘चङ्क्रमणाचक्रम् ( नि ४,२७ ) इति यास्कः । गन्तव्यानि स्थानानि “विश्वा विश्वानि “भुवनानि । इति अश्वपक्षेऽर्थः । विवक्षितस्तु - अश्वः अश्नुते व्याप्नोति भूतभविष्यद्वर्तमानकालवर्तीनि वस्तूनीति अश्वः । कालः कलयिता सर्वस्य जगतः अनवच्छिन्नकालरूपः परमेश्वरः । सप्तरश्मिः । रश्मिशब्देन ऋतव उच्यन्ते । सप्तर्तुः एकैक ऋतुर्मासद्वयात्मकः सप्तमस्तु त्रयोदशो मासः । तथा च दाशतय्याम् आम्नायते -- ‘साकंजानां सप्तथम् आहुरेकजं षळिद्यमा ऋषयो देवजा इति' ( ऋ १,१६४,१५ ) इति । अत्रापि समाम्नातं प्राक् ( अ ९,१४,१६ ) । सहस्राक्षः । अत्र अक्षिशब्देन दिनानि रात्रयश्च उच्यन्ते । सहस्रसंख्याकाहोरात्रयुक्तः । अजरः जरारहितः सर्वदा एकरूपः । भूरिरेताः प्रभूतजगत्सर्जनसमर्थशक्तिसंपन्नः । एवंरूपः कालो वहति प्राणिजातं स्वस्वकर्मसु प्रापयति । तं कालं कवयः क्रान्तदर्शिनो विपश्चितः विद्वांसः आ रोहन्ति स्वाधीनं कुर्वन्ति । स्वाधीनकाला भवन्तीत्यर्थः । तस्य कालात्मकस्य रथस्य चक्रा चक्राणि विश्वा विश्वानि भुवनानि भूतजातानि । लोकान् अभिगच्छन्तीति शेषः । अथवा अश्वशब्देन आदित्य उच्यते । तथा च यास्कः - ‘एको अश्वो वहति सप्तनामा आदित्यः । सप्तास्मै रश्मयो रसान् अभिसंनामयन्ति सप्तैनम् ऋषयः स्तुवन्तीति वा’ ( नि ४,२७ ) इति । कालात्मकोऽश्वः सूर्यः सप्त रश्मयः प्रधानभूता यस्य । ते चैव सप्त सूर्या इत्युच्यन्ते । ‘देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष नः' ( ऋ ९,११४,३ ) इति निगमः । तेषां च नामानि तैत्तिरीया अधीयते - ‘आरोगो भ्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषीमान् विभासः' ( तैआ १, ७,१ ) इति । असौ तु प्रधानभूतः कश्यपाख्य आदित्यः । ‘कश्यपोऽष्टमः स महामेरुं न जहाति' ( तैआ १,७,१ ) इति श्रुतेः । यद्वा रश्मिशब्देन च्छन्दांस्यभिधीयन्ते । सप्त गायत्र्यादीनि च्छन्दांसि यस्य । तथा च निगमः - ‘ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः ( तैब्रा ३,१२,९,१ ) इति । यद्वा रश्मिवन्तोऽश्वा रश्मिशब्देन उच्यन्ते । मत्वर्थीयस्य लोपः । सप्ताश्वः । सप्त युञ्जन्ति रथम् एकचक्रम् ( अ ९,१,२४ ) इति निगमः । सहस्राक्षः अक्षिवद् अक्षीणि किरणाः सहस्रकिरणोपेतः अजरः अविनश्वरो नित्यः भूरिरेताः । उदकवाची रेतःशब्दः । ‘यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षति ' (तै २,४,१०,२ ) इति श्रुतिः । एवंरूप आदित्यो वहति कालचक्रं धारयति । तं कालात्मकं सूर्यं विद्वांसः अधिगतपरमार्थाः “आ “रोहन्ति सूर्यमण्डलं भित्त्वा उपगच्छन्ति ।।

‘द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।

परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ ( महाभारत ५,३३,५३ )

इति स्मृतेः । यद्वा स्वात्मभावेन अधितिष्ठन्ति । अत एव आदित्यं पुरुषं प्रकृत्य श्रूयते - तद् योऽहं सोऽसौ योऽसौ सोऽहम् । तद् उक्तम् ऋषिणा - ‘सूर्य आत्मा जगतस्तस्थुषश्च ( ऋ १,११५,१ ) इति ( ऐआ २,२,४ ) इति । तस्य सूर्यस्य “चक्रा चक्राणि चङ्क्रमणानि व्याप्तिस्थानानि सर्वाणि जगन्तीति ।


सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।।

स इमा विश्वा भुवनान्यञ्जत् कालः स ईयते प्रथमो नु देवः ॥ २ ॥

सप्त । चक्रान् । वहति । कालः । एषः । सप्त । अस्य । नाभीः । अमृतम् । नु । अक्षः ।

सः । इमा । विश्वा । भुवनानि । अञ्जत् । कालः । सः । ईयते । प्रथमः । नु । देवः ॥२॥

अनया संवत्सररूपकालचक्रं वर्ण्यते । तस्य संवत्सरकालस्य चक्राणि एकं त्रीणि पञ्च षट् सप्त द्वादशेति तत्रतत्र आम्नायते । ‘सप्त युञ्जन्ति रथम् एकचक्रम् ( अ ९,१४,२ ), ‘त्रिनाभि चक्रम् ( अ ९,१४,२ ), ‘सप्तचक्रे षडरे' ( अ ९,१४,१२ ), ‘द्वादशारम्' ( अ ९,१४,१३ ) इत्यादिषु । तथा च शौनकोऽप्याह

त्रिधा द्वादशधा षोढा पञ्चधा सप्तधा तथा ।

संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः ॥' (बृदे ४,३५ ) इति ।

एष सर्वजगत्कारणत्वेन अनुभूयमानः “कालः परमात्मा “सप्त “चक्रा चक्राणि सप्त ऋतून् “अनु अनुक्रमेण “वहति धारयति । “अस्य संवत्सरस्य “सप्त “नाभीः नाभयः । नह्यते नाभिः । अक्षबन्धकानि मध्यच्छिद्राणि सप्त ऋतुसंधिकालाः । अस्य “अक्षः “तनु संततं सूक्ष्मम् “अमृतम् अमरणधर्मकम् अविनश्वरं तत्त्वम् । सप्तचक्रच्छिद्रेषु प्रोतः अनुस्यूतोऽक्षः सत्यम् अबाध्यं तत्त्वम् । “सः पूर्वोक्तसंवत्सररूपः “प्रथमः सर्वस्य आदिभूतो “देवः द्योतमानः नित्यज्ञानरूपः “कालः परमात्मा “इमा इमानि नामरूपात्मना व्याकृतानि “विश्वा विश्वानि “भुवनानि भवनवन्ति चराचरात्मकानि जगन्ति “अञ्जत् अञ्जन् । अनक्तेः शतरि ‘अनित्यम् आगमशासनम्' इति नुमभावः । व्यक्तीकुर्वन् स्वेन कालेन अवच्छिन्नानि कुर्वन् उत्पादयन् “सः स्यति संहरतीति सः। षो अन्तकर्मणि । कर्तरि कप्रत्ययः । आतो लोपः । संहरंश्च “ईयते गच्छति व्याप्नोति सर्वम् आवृत्य वर्तते । ईङ् गतौ । दैवादिकः । “नु शब्दः प्रसिद्धौ।। यद्वा अध्यात्मपरत्वेन योज्यः । कालः कलयिता सर्वेन्द्रियव्यापारकर्ता शरीराभिमानी देवः । बन्धकाः विषया रूपादयः । तनु सूक्ष्मं दुर्दर्शम् । अमृतम् चैतन्यम्। अक्षः सर्वेन्द्रियेषु तद्विषयेषु च अनुगतः । एवं सर्वाणि प्राणिजातानि अञ्जत् प्रेरयन् ईयते । स उपसंहरंश्च स कालः ईयते तत्त्वज्ञैर्ज्ञायते । इण् गतौ। कर्मणि यक् प्रत्ययः ।।


पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।

स इमा विश्वा भुवनानि प्रत्यङ् कालं तमाहुः परमे व्योमन् ॥ ३ ॥

पूर्णः । कुम्भः । अधि। काले। आऽहितः । तम् । वै । पश्यामः । बहुऽधा । नु । सन्तम् ।

सः । इमा । विश्वा । भुवनानि । प्रत्यङ् । कालम् । तम् । आहुः । परमे । विऽओमन् ॥ ३ ॥

“काले सर्वजगत्कारणभूते नित्ये अनवच्छिन्ने परमात्मनि स्वस्वरूपे । “अधि शब्दः सप्तम्यर्थानुवादी। “पूर्णः सर्वत्र व्याप्तः “कुम्भः कुम्भवत् कुम्भः अहोरात्रमासर्तुसंवत्सरादिरूपः अवच्छिन्नो जन्यः कालः “आहितः निहितो वर्तते ।। सर्वस्य कार्यस्य स्वकारणेऽवस्थानात् । अत्र विद्वदनुभवश्रुतिं प्रमाणयति - “तं जन्यं कालं “सन्तः सत्पुरुषा “बहुधा नानाप्रकारम् अहोरात्रादिभेदेन “पश्यामो “नु अनुभवामः खलु । अथवा तं जन्यकालाधारं परमात्मानं बहुधा बहुभिः श्रवणमनननिदिध्यासनैः पश्यामः साक्षात्कुर्मः । सन्तः सद्रूपब्रह्मोपासका वयम् । अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः' ( तैआ ८,६,१) इति हि श्रतिः । वैनु - शब्दौ प्रसिद्ध्यर्थौ । स कालः “इमा इमानि परिदृश्यमानानि “विश्वा विश्वानि व्याप्तानि “भुवनानि भूतजातानि “प्रत्यङ् प्रत्यञ्चनः अभिमुखाञ्चनः आव्याप्नुवन् भवति । “तं “कालं “परमे उत्कृष्टे सांसारिकसुखदुःखादिद्वन्द्वदोषरहिते “व्योमन् व्योमनि आकाशवन्निर्लेपे सर्वगते विविधं रक्षके परमानन्दप्रदायके स्वस्वरूपे वर्तमानम् “आहुः विद्वांसः । व्योमन्निति । ‘सुपां सुलुक्' ( पा ७,१,३९ ) इति सप्तम्या लुक् । ‘न डिसबुद्धयोः' ( पा ८,२,८ ) इति नलोपप्रतिषेधः ।


स एव सं भुवनान्याभरत् स एव सं भुवनानि पर्यैत् ।

पिता सन्नभवत् पुत्र एषां तस्माद् वै नान्यत् परमस्ति तेजः ॥ ४ ।।

सः । एव । सम् । भुव॑नानि । आ । अभरत्। सः । एव । सम्। भुवनानि । परि । ऐत् ।

पिता । सन् । अभवत् । पुत्रः । एषाम् । तस्मात् । वै । न । अन्यत् । परम् । अस्ति। तेजः॥

स एव कालः “भुवनानि भूतजातानि “सम् “आ “अभरत आहरत् आहरति उत्पादयति । 'हृग्रहोर्भः' ( पावा ८,२,३२) । यद्वा भृञ् भरणे । भौवादिकः । स्वेनोत्पादितानि भुवनानि समन्तात् पुष्णाति । “स “एव कालः “भुवनानि “सं “पर्यैत् सम्यक् परिगच्छति व्याप्नोति । इण् गतौ । छान्दसे लङि आडजादीनाम् ( पा ६,४,७२ ) इति आडागमः । ‘आटश्च' ( पा ६,१,९०') इति वृद्धिः । स एव “पिता एषां भुवनानां जनकः “सन् “एषां “पुत्रः “अभवत् भवति । काल एव पितृत्वेन पुत्रत्वेन च व्यवह्रियते । यः पूर्वजन्मनि पितृत्वेन जातः स एव अस्मिन् जन्मनि पुत्रत्वेन व्यवह्रियते अवच्छेदककालाधीनत्वात् सर्वस्य । अथवा एकस्मिन् जन्मन्येव पितुः पुत्रत्वम् आम्नायते - ‘अङ्गाद् अङ्गात् संभवसि हृदयाद् अधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम्' ( कौउ २,११ ) इति । “तस्मात् सर्वोत्पादकात् सर्वगतात् पुत्रादिरूपेण भविष्यतश्च तस्मात् कालाद् “अन्यत् “परम् उत्कृष्टं “तेजो “नास्ति । वैशब्दः प्रसिद्धौ । तेजो नास्तीति निषेधात् स्वस्यापि तेजोरूपत्वम् अर्थसिद्धम् । ‘तस्य भासा सर्वम् इदं विभाति' (कउ ५, १५) इति श्रुतेः ।।


कालोऽमूं दिवमजनयत् काल इमाः पृथिवीरुत ।

"काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥ ५ ॥

कालः । अमूम् । दिवम् । अजनयत् । कालः । इमाः । पृथिवीः । उत ।

काले । ह । भूतम् । भव्यम् । च । इषितम् । ह । वि । तिष्ठते ॥ ५ ॥

“कालः परमात्मा अमूं विप्रकृष्टां “दिवम् द्युलोकम् “अजनयत् उत्पादितवान् । “उत अपिच “कालः “इमाः परिदृश्यमानाः सर्वप्राण्याधारभूताः “पृथिवीः । व्यत्ययेन बहुवचनं कक्ष्याभेदेन वा । तथा च मन्त्रवर्णः - “यद् इन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्याम् उत स्थः' ( ऋ १,१०८,९ ) इति । तथा “ह शब्दः एवार्थे । “काले एव “भूतम् भूतकाले आधारे अवच्छिन्नं “भव्यम् भविष्यच्च “इषितम् इष्टम् इष्यमाणं वर्तमानकालावच्छिन्नं च जगद् “वि “तिष्ठते विशेषेण आश्रितं वर्तते । “समवप्रविभ्यः स्थः' ( पा १,३,२२ ) इत्यात्मनेपदम् ।


कालो भूतिमसृजत काले तपति सूर्यः ।

काले ह विश्वा भूतानि काले चक्षुर्विं पश्यति ॥ ६ ॥

कालः । भूतिम् । असृजत । काले । तपति । सूर्यः ।

काले । ह । विश्वा । भूतानि । काले । चक्षुः । वि । पश्यति ॥ ६ ॥

“कालः कालरूपः परमात्मा “भूतिम् भवनवज्जगद् “असृजत । सृज विसर्गे । तौदादिकः । व्यत्ययेन आत्मनेपदम्। दैवादिकाद् वा आत्मनेपदिनो व्यत्ययेन शः । “काले प्रेरके सति “सूर्यः आदित्यः “तपति जगत् प्रकाशयति । “काले एव आश्रये “विश्वा विश्वानि “भूतानि वर्तन्ते । “काले “चक्षुः । उपलक्षणम् एतत् । चक्षुरादीन्द्रियाणि “वि “पश्यति । इदमपि उपलक्षणम् । दर्शनादिकर्माणि कुर्वन्ति । यद्वा चक्षुः । चक्षुःशब्दो लुप्तमत्वर्थीयः । चक्षुष्मान् सर्वेन्द्रियाधिष्ठाता वि पश्यति स्वस्वेन्द्रियव्यापारं करोति ।।


काले मनः काले प्राणः काले नाम समाहितम् ।।

कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥ ७ ॥

काले । मनः । काले । प्राणः । काले । नाम । सम्ऽआहितम् ।

कालेन । सर्वाः । नन्दन्ति । आऽगतेन । प्रऽजाः । इमाः ॥ ७ ॥

“काले परमात्मनि “मनः जगत्सिसृक्षानिमित्तभूतं मनो वर्तते । तस्मिन्नेव “काले “प्राणः सूत्रात्मा सर्वजगदन्तर्यामी वर्तते । अन्तर्यमनोपाधिकत्वेन काले वर्तते इति आधारव्यपदेशः । यद्वा मनः जात्येकवचनम् । सर्वेषां प्राणिनां मनांसि । प्राणः पञ्चवृत्तिकः प्राणा अपि परमात्मन्येव वर्तन्ते । तथा “नाम नामधेयं सर्वेषां वस्तूनां संज्ञा अपि तत्रैव “काले “समाहितम् । स्त्रीपुरुषादिसंज्ञाभिः काल एव उच्यत इत्यर्थः । यद्वा सर्वेषां रूपाणि कृत्वा तेषां नामान्यपि स्वयमेव व्यवहरतीत्येतदभिप्रायेण ‘काले नाम समाहितम्' इत्युक्तम् । ‘सर्वाणि रूपाणि विचिन्य धीरो नामानि कृत्वाभिवदन् यदास्ते' ( तैआ ३,१२,७ ) इति हि श्रुतिः । “कालेन वसन्तादिरूपेण “आगतेन सर्वा इमाः प्रजा नन्दन्ति संतुष्यन्ति स्वस्वकार्यसिद्धेः ।


काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।

कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ॥ ८ ॥

काले । तपः । काले । ज्येष्ठम् । काले । ब्रह्म । सम्ऽआहितम् ।

कालः । ह । सर्वस्य । ईश्वरः । यः । पिता । आसीत् । प्रजाऽपतेः ॥ ८ ॥

“काले परमात्मनि “तपः जगत्सर्जनविषयं पर्यालोचनम् । तप पर्यालोचने । अस्माद् असुन् । ‘तपसा चीयते ब्रह्म’ ( मुंउ १,१,८ ) इत्यादौ तपःशब्दः पर्यालोचनार्थत्वेन व्याख्यातः । तथा “काले “ज्येष्ठम् सर्वस्य आदिभूतं हिरण्यगर्भाख्यं तत्त्वं वर्तते। तथा “काले “ब्रह्म साङ्गो वेदस्तत्प्रतिपादकः “समाहितम् सम्यगाहितः । यद्वा तपः कृच्छ्रचान्द्रायणादिकम् । तत्फलप्रदातृत्वात् तत्रैव वर्तनम् । एकः कालशब्दो यौगिकः कलयितरि काले ज्येष्ठं ब्रह्म हिरण्याख्यम् । ज्येष्ठं ब्रह्म श्रेष्ठं ब्रह्म इति हि श्रुत्यन्तरम् । हशब्दः अवधारणे । “कालः “सर्वस्य जगत “ईश्वरः स्वामी । “यः कालः “प्रजापतेः प्रजानां स्रष्टुश्चतुर्मुखस्य ब्रह्मणः “पिता जनक “आसीत् ।


तेनेषितं तेनं जातं तदु तस्मिन् प्रतिष्ठितम् ।

कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥ ९ ॥

तेन । इषितम् । तेन । जातम् । तत् । ॐ इति । तस्मिन् । प्रतिऽस्थितम् । कालः । ह । ब्रह्म । भूत्वा । बिभर्ति । परमेऽस्थिनम् ॥ ९ ॥ “तेन कालेन “इषितम् इष्टं सर्वं स्रष्टव्यं जगत् । कामितम् इत्यर्थः। ‘तीषसह (पा ७,२,४८) इति इडागमः । “तेन एव “जातम् उत्पादितं जगत् । “तत् तज्जगत् । “उ शब्दः अवधारणे । “तस्मिन् एव काले “प्रतिष्ठितम् । “कालो “ह काल एव ब्रह्म देशकालावच्छिन्नं सच्चित्सुखयितृरसम् अबाध्यं परमार्थतत्त्वं “भूत्वा “परमेष्ठिनम् परमे स्थाने सत्यलोके तिष्ठन्तं चतुर्मुखब्रह्माणं “बिभर्ति ।


कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।

स्वयंभूः कश्यपः कालात् तपः कालादजायत ॥ १० ॥

कालः । प्रऽजाः । असृजत । कालः । अग्रे । प्रजाऽपतिम् ।।

स्वयम्ऽभूः । कश्यपः । कालात् । तपः । कालात् । अजायत ॥ १० ॥

“काल: “अग्रे सृष्ट्यादौ “प्रजापतिम् ब्रह्माणम् “असृजत उद्पादयत् । “कालः “प्रजाः च असृजत। “स्वयंभूः स्वयम् आत्मना भवतीति स्वयंभूः । कालव्यतिरिक्तकालान्तरनिषेधकः स्वयंशब्दः । “कश्यपः आरोगभ्राजादिसप्तसूर्यापेक्षया अष्टमः सूर्यः । ‘कश्यपोऽष्टमः स महामेरुं न जहाति' ( तैआ १,७,१) इति श्रुत्यन्तरम् उदाहृतम् (१) । कश्यपशब्दनिर्वचनं यास्केन (?) एवं कृतम् - ‘कश्यपः पश्यको भवति यत् सर्वं परिपश्यतीति सौक्ष्म्यात् ( तैआ १,८,८ ) इति । तादृशः सर्वस्य द्रष्टा सूर्यः तपः संतापकं तेजश्च “कालाद् “अजायत ।

इति षष्ठेऽनुवाके अष्टमं सूक्तम् ।।