अथर्ववेदः/काण्डं १९/सूक्तम् ५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १९.५१ अथर्ववेदः - काण्डं १९
सूक्तं १९.५२
ब्रह्मा
सूक्तं १९.५३ →
दे. कामः। त्रिष्टुप्, ३ चतुष्पदा उष्णिक्, ५ उपरिष्टाद्बृहती।

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।
स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।
त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
दूराच्चकमानाय प्रतिपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
कामेन मा काम आगन् हृदयाद्धृदयं परि ।
यदमीषामदो मनस्तदैतूप मामिह ॥४॥
यत्काम कामयमाना इदं कृण्मसि ते हविः ।
तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥