अथर्ववेदः/काण्डं १२/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं १२.०४ अथर्ववेदः - काण्डं १२
सूक्तं १२.०५
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.०६ →
दे. ब्रह्मगवी। (सप्त पर्यायाः) १ प्राजापत्यानुष्टुप्, .....

श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता ॥१॥
सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः ॥६॥ {२४}