अथर्ववेदः/काण्डं १२/सूक्तम् ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १२.०२ अथर्ववेदः - काण्डं १२
सूक्तं १२.०३
कश्यपः।
सूक्तं १२.०४ →
दे.वशा। अनुष्टुप्, ७ भुरिक्, २० विराट्, ३२ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा।

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।
अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।
ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
यदस्याः पल्पूलनं शकृद्दासी समस्यति ।
ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।
तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
य एनां वनिमायन्ति तेषां देवकृता वशा ।
ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।
हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।
तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।
यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
चरेदेवा त्रैहायणादविज्ञातगदा सती ।
वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
य एनामवशामाह देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
दुरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।
देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।
तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
वशा चरन्ती बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
मनसा सं कल्पयति तद्देवामपि गच्छति ।
ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
वशा माता राजन्यस्य तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।
एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।
सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
यो वेहतं मन्यमानोऽमा च पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।
अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
तां देवा अमीमांसन्त वशेया३ अवशेति ।
तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
विलिप्त्या बृहस्पते या च सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।
कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।
एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।
तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
ये वशाया अदानाय वदन्ति परिरापिणः ।
इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
यदि हुतां यद्यहुताममा च पचते वशाम् ।
देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}