अथर्ववेदः/काण्डं १२/सूक्तम् ०६

विकिस्रोतः तः
← सूक्तं १२.०५ अथर्ववेदः - काण्डं १२
सूक्तं १२.०६
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.०७ →
दे. ब्रह्मगवी। (सप्त पर्यायाः) ७-९ आर्च्यनुष्टुप् (७ भुरिक्).....

ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}