अंशुमत्काश्यपागमः/वृत्तस्फुटितलक्षणपटलः १५

विकिस्रोतः तः
← पटलः १४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १६ →


अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् ।

षडंगुलं समारभ्यं द्विद्व्यंगुलविवर्धनात् ॥ १ ॥


कलांगुलावधिर्यावत् तावद्व्यासं तु षट्विधम् ।

वितारार्धं तु तन्निव्रं त्रिद्व्यंशं वा त्रिभागिकम् ॥ २ ॥


वृत्ताकारसमं चैव तोरणंघ्रिवदायतम् ।

सकन्धरं तदूर्ध्वे तु शुकनास्यान्वितं तु वा ॥ ३ ॥


कर्णकूटाकृतिं वाथ वृत्ताकारं प्रकल्पयेत् ।

स्तंभोत्सेधयुगांशे तु द्विभागं चरणायतम् ॥ ४ ॥


प्रस्तरोदयमेकांशं शुकनास्योदयांशकम् ।

तदेव कूटमानं तु तत्तदुक्तावसानयेत् ॥ ५ ॥


अथवान्तरमंचं तु प्रोक्तमार्गेण वा कुरु ।

वृत्त स्हुटितमेवं हि लतामंडलमण्डितम् ॥ ६ ॥


स्तंभाख्ये तोरणं चैव तथा कुंभलता द्विज ! ।

वृत्ताख्य स्फुटितं चैव हारान्तरेषु कल्पयेत् ॥ ७ ॥


स्तंभोत्तरे वा कर्तव्यं हर्म्यादीनां विशेषतः ।


इत्यंशुमान्काश्यपे वृत्तस्फुटितलक्षणपटलः (पंचदश) ॥ १५ ॥