अंशुमत्काश्यपागमः/कुम्भलताविधिपटलः १४
← पटलः १३ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः १५ → |
अथ वक्ष्ये विशेषेण कुंभलताविधिं शृणु ।
स्तंभमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् ॥ १ ॥
पादव्याससमं तुंगं सप्तादं पद्मविस्तरम् ।
पद्मोच्चं वसुधा भज्य कम्पमेकांशमुच्यते ॥ २ ॥
अधः पद्मं गुणांशं तु एकांशं गलमुच्यते ।
ऊर्ध्वपद्मं द्विभागं तु कम्पमेकेन कारयेत् ॥ ३ ॥
तदूर्ध्वे कुंभतुंगंतु पद्मस्योच्चसमं भवेत् ।
तत्तुंगद्विगुणं कुंभं व्यासमित्युच्यते मया ॥ ४ ॥
कुंभस्य स्तंभनिर्यूहं वल्लीमण्डलसंयुतम् ।
कुंभमंड्यादिसंयुक्तं वीरकाण्डविहीनकम् ॥ ५ ॥
फलकोपरि पद्मं तु कुंभमानेन कारयेत् ।
कुंभं कुंभं लतां ह्येतां अन्यथा वक्ष्यते बुधैः ॥ ६ ॥
तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् ।
बोधिकारहितं यत्तत् स्तंभकुंभलता स्मृता ॥ ७ ॥
स्तंभतोरणवन्मूर्ध्नि कर्तव्या तोरणलता ।
एवं त्रिविधिनीत्या तु प्रोच्यते कुंभलता द्विज ! ॥ ८ ॥
इत्यंशुमान्काश्यपे कुंभलताविधिपटलः (चतुर्दश) ॥ १४ ॥