अंशुमत्काश्यपागमः/कुम्भलताविधिपटलः १४

विकिस्रोतः तः
← पटलः १३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १५ →

अथ वक्ष्ये विशेषेण कुंभलताविधिं शृणु ।

स्तंभमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् ॥ १ ॥


पादव्याससमं तुंगं सप्तादं पद्मविस्तरम् ।

पद्मोच्चं वसुधा भज्य कम्पमेकांशमुच्यते ॥ २ ॥


अधः पद्मं गुणांशं तु एकांशं गलमुच्यते ।

ऊर्ध्वपद्मं द्विभागं तु कम्पमेकेन कारयेत् ॥ ३ ॥


तदूर्ध्वे कुंभतुंगंतु पद्मस्योच्चसमं भवेत् ।

तत्तुंगद्विगुणं कुंभं व्यासमित्युच्यते मया ॥ ४ ॥


कुंभस्य स्तंभनिर्यूहं वल्लीमण्डलसंयुतम् ।

कुंभमंड्यादिसंयुक्तं वीरकाण्डविहीनकम् ॥ ५ ॥


फलकोपरि पद्मं तु कुंभमानेन कारयेत् ।

कुंभं कुंभं लतां ह्येतां अन्यथा वक्ष्यते बुधैः ॥ ६ ॥


तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् ।

बोधिकारहितं यत्तत् स्तंभकुंभलता स्मृता ॥ ७ ॥


स्तंभतोरणवन्मूर्ध्नि कर्तव्या तोरणलता ।

एवं त्रिविधिनीत्या तु प्रोच्यते कुंभलता द्विज ! ॥ ८ ॥


इत्यंशुमान्काश्यपे कुंभलताविधिपटलः (चतुर्दश) ॥ १४ ॥