विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४८

विकिस्रोतः तः
← अध्यायः १४७ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४८
वेदव्यासः
अध्यायः १४९ →

।। वज्र उवाच ।।
चरितं बुधपुत्रस्य मार्कण्डेय मया श्रुतम् ।।
श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ।। १ ।।
धेन्वाः प्रसूयमानायाः फलं दाने तथा श्रुतम् ।।
कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च ।। २ ।।
श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य भार्गव ।।
कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ।। ३ ।।
केन कर्मविपाकेन स तु राजा पुरूरवाः ।।
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ।। ४ ।।
देवांस्त्रिभुवन श्रेष्ठान्गन्धर्वांश्च मनोरमान् ।।
उर्वशी संगता त्यक्त्वा सर्वभावेन तं नृपम् ।। ५ ।।
मार्कण्डेय उवाच ।।
शृणु कर्मविपाकेन येन राजा पुरूरवाः ।।
पुरूरवा इति ख्यातो मद्रेष्वासीन्महीपतिः ।। ६ ।।
चाशुषस्यान्वये जातश्चाक्षुषस्यान्तरे मनोः ।।
सर्वैर्नृपगुणैर्युक्तः केवलं रूप वर्जितः ।। ७ ।।
वज्र उवाच ।।
पुरूरवा मद्रपतिः कर्मणा केन भार्गव ।।
बभूव कर्मणा केन कुरूपश्च तथा द्विज ।। ८ ।।
मार्कण्डेय उवाच ।।
द्विजग्रामे द्विजश्रेष्ठो नाम्नैवाऽऽसीत्पुरूरवाः ।।
नद्याः कूले महाराज पूर्वजन्मनि पार्थिवः ।। ९ ।।
स तु मद्रपतिर्नाम्ना योऽभूद्राजा पुरूरवाः ।।
अस्मिञ्जन्मन्यसौ विप्रो द्वादशीषु सदानघ ।। 1.148.१० ।।
उपोष्य पूजयामास राज्यकामो जनार्दनम् ।।
चकार सोपवासं च स्नानमभ्यङ्गपूर्वकम् ।। ११ ।।
उपवासफलं प्राप्य राज्यं मद्रेष्वकण्टकम् ।।
उपोषितस्तदाभ्यङ्गाद्रूपहीनोऽभ्यजायत ।। १२ ।।
उपोषितो नरस्तस्मात्स्नानमभ्यङ्गपूर्वकम् ।।
वर्जयेत्तत्प्रयत्नेन रूपघ्नं तत्परं नृणाम् ।। १३ ।।
एतत्ते कथितं तस्य यद्वृत्तं पूर्वजन्मनि ।।
मद्रेश्वरत्वे चरितं शृणु तस्य महीपतेः ।। १४ ।।
तस्य राजगुणैः सर्वैः समुपेतस्य पार्थिव ।।
जनानुरागो नैवासीद्रूपहीनस्य यादव ।। १५ ।।
रूपकामः स मद्रेशस्तपसे कृतनिश्चयः ।।
राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम् ।। १६ ।।
व्यवसायद्वितीयस्तु पद्भ्यामेव महायशाः ।।
ऊर्ध्वं संतीर्य स नदं विषयान्ते स्वकीं नदीम् ।।
इरावतीमिति ख्यातां ददर्शातिमनोहराम् ।। १७ ।।
तुहिनगिरिभवां महोघवेगां तुहिनसगर्भसमानशीतलोदाम् ।।
तुहिनसदृशवर्णफेनयुक्तां तुहिनयशाः सरितं ददर्श राजा ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मद्रेश्वरस्य तपोवन गमनं नामाष्टचत्त्वारिंशदुत्तरशततमोऽध्यायः ।। १४८ ।।