विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४८ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४९
वेदव्यासः
अध्यायः १५० →

मार्कण्डेय उवाच ।।
स ददर्श नदीं पुण्यां रम्यां हैमवतीं शुभाम् ।।
गन्धर्वगणसंकीर्णां नित्यं शक्रेण सेविताम् ।। १ ।।
सुरेभमदसिंदूरैर्यस्यां राजिर्विराजते ।।
मध्येन शक्रचापाभा तस्यां मज्जति सर्वदा ।। २ ।।
तपस्विशरणायातां मुख्यब्राह्मणसेविताम् ।।
ददर्श शीतपानीयां महाराजः पुरूरवाः ।। ३ ।।
प्लुतहंसावलीछन्नां काशचामरवीजिताम् ।।
साभिषेकामिव स तां पश्यन्प्रीतिं परां ययौ ।। ४ ।।
पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् ।।
क्षयवृद्धियुतां सौम्यां सोममूर्तिमिवापराम् ।। ५ ।।
सुशीतशीघ्रपानीयां द्विजपुञ्जनिषेविताम् ।।
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ।। ६ ।।
अमृतस्वादुसलिलां तापसैरुपशोभिताम् ।।
स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ।। ७ ।।
अग्र्यां समुद्रमहिषीं महिषीगणगाहिताम् ।।
हितां सर्वस्य लोकस्य कस्य नौत्सुक्यकारिणीम् ।। ८ ।।
गोकुलाकुलतीरां तां रम्यां शैवालवर्जिताम् ।।
हंससारससंघुष्टैर्जलजैः सेवितां शुभैः ।। ९ ।।
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलाम् ।।
नीलनीरजनेत्रां तामुत्फुल्लकमलाननाम् ।। 1.149.१० ।।
हिमाभफेनवसनां चक्रवाकाधरां शुभाम् ।।
बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम्।। ११।। स्वजलोद्धतमातङ्गरम्यकुम्भपयोधराम् ।।
हंसनूपुरसंघुष्टां मृणालवलयावलीम् ।। १२ ।।
यस्यां रूपमदोन्मत्तगन्धर्वानुगतः सदा ।।
मध्याह्नसमये राजन्क्रीडत्यप्सरसां गणः ।। १३ ।।
तामप्सरोविनिर्मुक्तान्वहन्ती कुसुमाञ्शुभान् ।।
स्वतीरद्रुमसंभूतान्नानावर्णान्सुगन्धिनः ।। १४ ।।
तरङ्गशतसंक्रान्तसूर्यमण्डलदुर्दशम् ।।
सुरेभजनिताघातवप्रद्वयविभूषिताम् ।। १५ ।।
शक्रेभगण्डसलिलैर्देवस्त्रीकुच चन्दनैः ।।
संयुतं सलिलं यस्याः षट्पदैरुपसेव्यते ।। १६ ।।
यस्यास्तीरभवा वृक्षाः सुगन्धिकुसुमान्विताः ।।
तथा प्रकृष्टभ्रमरा भ्रमरैस्ते निराकुलाः ।। १७ ।।
यस्यास्तीरे रतिं यान्ति सदा कामवशानुगाः ।।
तपोधनाश्च ऋषयस्तथा देवाः सवासवाः ।। १८ ।।
लभन्ते यत्प्लुताङ्गास्तु देवेभ्यः प्रतिमाननाः ।।
स्त्रियश्च नाके बहुलाः पद्मेन्दुप्रतिमाननाः ।। १९ ।।
या बिभर्ति सदा तोयं देवसंघैरपीडितम् ।।
पुलिन्दमृगवृन्दैश्च व्याधसंघैरपीडितम् ।। 1.149.२० ।।
सतामरसपानीयां सतारागगनामलाम् ।।
स तां पश्यन्ययौ राजा सतामीप्सितकामदाम् ।। २१।।
यस्यास्तीररुहैः काशैः फुल्लैश्चन्द्रांशुसन्निभैः ।।
राजद्भिर्विवृताकाशै रम्यैस्तत्क्षीरसंस्थितैः ।।२२।।
या च सदा दिवि सेव्यति देवैर्या च सदा भुवि सेव्यति विप्रैः ।।
या च सदा सकलाघविनाशं भक्तजनस्य करोत्यचिरेण ।।२३।।
या च गता सरितां हि कदम्बैर्या च नुता सततं हि महीनैः ।।
या च युता शततोयकदम्वैर्या च गता सततं हिमहीनैः ।। २४ ।।
युक्तापि केसरिगणैः करिवृन्दयाता सन्नागयुक्तसलिलापि सुवर्णयुक्ता ।।
सूर्यांशुतापपरिवृद्धिविवृद्धिशीला शीतांशुतुल्ययशसा ददृशे नृपेण ।। २५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इरावतीवर्णनो नामैको नपञ्चाशदुत्तरशततमोऽध्याय ।। १४९ ।।