विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३८

विकिस्रोतः तः
← अध्यायः १३७ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३८
वेदव्यासः
अध्यायः १३९ →

।। वज्र उवाच ।।
वर्तन्ते पितरः स्वर्गे केषांचिन्नरके तथा ।।
नरकस्थाः फलं दातुं कथं शक्ता वदस्व मे ।। १ ।।
मार्कण्डेय उवाच ।।
पितॄणां तु गणाः सप्त नामतस्तान्निबोध मे ।।
त्रयोऽमूर्तिमतश्चैषां चत्वारश्च समूर्तयः ।। २ ।।
सुभासुरा बर्हिषदोऽग्निष्वात्तास्तथैव च ।।
त्रयो मूर्तिमतश्चैषां चत्वारश्चाप्यमूर्तयः ।। ३ ।।
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।।
मूर्तिमन्तः पितृगणाश्चत्वारश्च प्रकीर्तिताः ।। ४ ।।
सुभास्वरा ब्रह्मसुताः सोममाप्याययन्ति ये ।।
ब्रह्मलोकचरा राजन्नित्यं मूर्तिविवर्जिताः ।।५।।
तथा बर्हिषदो नाम राजपुत्रा मरीचिनः ।।
आप्याययन्ति ते देवाँल्लोके सोमपदे स्थिताः ।। ६ ।।
विभ्राजलोके तिष्ठन्ति अग्निष्वात्ता नराधिप ।।
पुलस्त्यस्य ऋषेः पुत्रा भविष्यन्ति जगन्ति ते ।। ७ ।।
दानवान्यक्षगन्धर्वान्पिशाचोरगराक्षसान् ।।
दैत्यान्भूतपिशाचांश्च विद्याधरगणांस्तथा ।।८ ।।
नागान्सर्पान्सुपर्णांश्च पर्वतान्सरितस्तथा ।।
क्रव्यादाँश्चोपहूतांश्च अज्यपाँश्च सुकालिनः ।। ९ ।।
ब्राह्मणान्क्षत्रियान्वैश्यान्भावयन्त्यन्त्यजाँस्तथा ।।
कवेराङ्गिरसश्चैव कर्दमस्य प्रजापतेः।। 1.138.१० ।।
वसिष्ठस्य तथा पुत्राः क्रमेणैते प्रकीर्तिताः ।।
ज्योतिर्भासः स्मृता लोके ये च लोका मरीचिनः ।।११।।
तेजेस्विनो मान साश्च क्रमेणैते प्रकीर्तिताः ।।
एते श्राद्धस्य भोक्तारो विश्वेदेवैः सदा सह ।। १२ ।।
एते श्राद्धं सदा भुक्त्वा पितॄन्संतर्पयन्त्यतः ।।
यत्र क्वचन धर्मज्ञ वर्तमाना हि योगतः ।।१३ ।।
एते च पुष्ट्या विनियोजयन्ति श्राद्धस्य दातारमदीनसत्त्वाः ।।
तृप्तास्तथैते विनियोजयन्ति दातुः पितॄन्सर्वगतान्महीप ।।१४।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पितृस्वर्गनरकनिवासहेतुनिर्णयोनामाष्टत्रिंशदुत्तरशततमोऽध्यायः ।।।१३८।।