विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३९

विकिस्रोतः तः
← अध्यायः १३८ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३९
वेदव्यासः
अध्यायः १४० →

।। वज्र उवाच ।।
वैवस्वतेऽन्तरे प्राप्ते प्रथमे भृगुनन्दन ।।
श्राद्धं प्रदर्शितं केन तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।।
हिरण्याक्षवधे पूर्वं यदा त्यक्त्वा धराधराः ।।
धरां सपक्षा खगमाः खं गता मनुजेश्वर ।। २ ।।
धराधरपरित्यक्ता तदा चलितबन्धना ।।
धरा स्थानाच्च्युता वेगात्प्रविवेश रसातलम् ।। ३ ।।
हिरण्याक्षं तदा हत्वा नृवराहो जनार्दनः ।
प्रोथेन च कराभ्यां च विधार्य वसुधां बलात् ।।४ ।।
संपूज्यमानस्त्रिदशैः प्रविवेश रसातलम् ।।
रसातलतलं गत्वा शेषमूर्तौ स्वके स्थितः ।। ५ ।।
दंष्ट्राग्रेण समुद्धृत्य महीं दध्रे तदा भुजे ।।
वामबाहुनिविष्टांतां कृत्वा त्रिदशपुङ्गवः ।। ६ ।।
उज्जहार महातेजा लोकानां हितकाम्यया ।।
रत्नज्वालावलीपुञ्जदुर्विभाव्यमुखाम्बुजः ।। ७ ।।
शेषस्तुष्टाव देवेशं तस्मिन्काले जगद्गुरुम्।।
पुरंध्रिवेशा वसुधा देवं तद्बाहुसंस्थिता।।८।।
तदा तुष्टाव भूपाल रमणीयतमाकृतिः ।।
उद्धृत्य वसुधां स्थाने स्थापयित्वा तथा स्वके।।९।।
जगाम भूमौ धर्मज्ञ वराहं नाम पर्वतम् ।।
कल्पारम्भे वराहस्य परमूर्तेः सशैलताम् ।। 1.139.१० ।।
तां समासाद्य धर्मात्मा देवः सर्वगतः प्रभुः ।।
दंष्टाग्रलग्नं मृत्पिण्डं गृहीत्वा दक्षिणे करे।। ११ ।।
प्रस्वेदाच्च तिलान्कृत्वा दर्भान्रोमभ्य एव च ।।
जलप्रस्रवणाभ्याशे तस्मिन्गिरिवरे तदा ।। १२ ।।
दक्षिणाग्राँस्तु विन्यस्य दर्भांस्तान्मधुसूदनः ।।
मृत्पिण्डान्सतिलाँस्तेषु दत्तवाँस्त्रीन्नराधिप ।। १३ ।।
दत्त्वा च गन्धपुष्पाद्यैः पूजयामास धार्मिकः ।।
पूजयित्वा च मर्यादां कृतवान्स नराधिप ।। १४ ।।
अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितॄन् ।।
ये तु श्राद्धं करिष्यन्ति तेषां पुष्टिर्भविष्यति ।। १५ ।।
श्राद्धकाले तथा तेन पिण्डनिर्वपणं तथा ।।
पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति ।। १६ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।।
पूजया ते भविष्यन्ति स्वयं पिण्डेषु नित्यदा ।। १७ ।।
तेषां त्रयः पूजिताश्च भविष्यन्ति तथाग्नयः ।।
त्रयो लोकास्त्रयो देवास्तथैव च युगत्रयम् ।। १८ ।।
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।
पूजितैस्तैर्भविष्यामि चतुरात्मा तथाप्यहम्।। १९।।
पितुः पैतामहः पिण्डो वासुदेवः प्रकीर्तितः ।।
पैतामहश्च निर्दिष्टस्तथा संकर्षणः प्रभुः ।। 1.139.२० ।।
पितृपिण्डश्च विज्ञेयः प्रद्युम्नश्चापराजितः ।।
आत्माऽनिरुद्धो विज्ञेयः पिण्डनिर्वपणं बुधैः।।२१।।
श्राद्धं कर्तुं कथं शक्यं शक्यं विना वैष्णवतेजसा ।।
एवं संपूजितस्तेन चतुरात्मा त्वहं स्थितः ।। २२ ।।
भविष्यामि प्रदास्यामि तस्य कामान्यथेप्सितान्।।
चत्वारः पूजिता वेदाश्चत्वारश्च तथाग्नयः ।। २३ ।।
चत्वारश्च युगास्तेन चतस्रश्च दिशस्तथा ।।
चत्वारश्च तथा वर्णाश्चत्वारश्च तथाश्रमाः।। २४ ।।
चत्वारो लोकपालाश्च भविष्यन्तीह पूजिताः ।।
एवं कृत्वा स मर्यादां तत्रैवान्तरधीयत ।।
ततः प्रभृति लोकेऽस्मिञ्छ्राद्धं सद्भिः प्रकीर्तितम् ।।२५ ।।
स्वर्गं च मोक्षं च यशः सुखानि राज्यं च पुत्रानथ भूमिपाल ।।
स्त्रियश्च मुख्या विविधांश्च कामान्देवेश्वरः श्राद्धकृतो विधत्ते ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्राद्धोत्पत्तिर्नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ।। १३९ ।।