विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६६

विकिस्रोतः तः
← अध्यायः ०६५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६६
वेदव्यासः
अध्यायः ०६७ →

॥ मार्कण्डेय उवाच ॥। ॥
कैलासशिखरे रम्ये रामस्य रमतस्तदा ॥
आजगाम हरं द्रष्टुं देवदेवः पुरन्दरः ॥ १ ॥
स समासाद्य देवेशं प्रणम्य वृषभध्वजम् ॥
उवाच वचनं सम्यङ्मुदा रामस्य सन्निधौ ॥ २ ॥
शक्र उवाच ॥
त्वत्प्रसादेन देवेश मया प्राप्तं त्रिविष्टपम् ॥
रामेण घातिताः सर्वे यथा मे देवशत्रवः ॥ ३ ॥
अवध्यास्त्रिदशानां ये वरदानबलोद्धताः ॥
नरवध्याः कृतास्ते हि ब्रह्मणा सुमहात्मना ॥ ४ ॥
पातालनिलया देव अवध्या देवतागणैः ॥
बाधन्ते नरवध्या मे लोकानां च जगत्पते ॥ ५ ॥
तांश्च घातय देवेश रामेणाक्लिष्टकर्मणा ॥
मार्कण्डेय उवाच ॥
एवं करिष्यतीत्युक्त्वा विसृज्य त्रिदशेश्वरम् ॥ ६ ॥
उवाच वचनं रामं भार्गवं पुरतः स्थितम् ॥
शङ्कर उवाच ॥
गच्छ भार्गव पातालं पातालनिलयाञ्जहि ॥ ७ ॥
शक्रशत्रून्दुराचारान्नरवध्यान्महासुरान्॥
वैष्णवं चापरत्नं ते मया न्यस्तं पितुः करे ॥८॥
तदादाय शरैस्तीक्ष्णैर्जहि तान्राम दानवान् ॥
अक्षयं तूणमादाय शरपूर्णमिदं तथा ॥ ९ ॥
मार्कण्डेय उवाच ॥।
एवमुक्त्वा ददौ चास्य तूणमक्षयसायकम् ॥
दत्त्वा च भगवानाह रामं परबलार्दनम् ॥ 1.66.१० ॥
शङ्कर उवाच ॥
तूणमेतत्प्रदातव्यं त्वयागस्त्याय भार्गव ॥
चापरत्नं च रामाय कृते कर्मणि सुव्रत ॥ ११ ॥
अगस्त्योऽपि महातेजास्तूणमक्षयसायकम् ॥
राघवायातियशसे रामायैव प्रदास्यति ॥ १२॥
रामसंदर्शनादूर्ध्वं मा कृथाः शस्त्रधारणम् ॥
रामसंदर्शने राम तव तेजो हि वैष्णवम् ॥ १३ ॥
रामं प्रवेक्ष्यति तदा सुरकार्यार्थमूर्जितम् ॥
यावत्त्वं तेजसा युक्तो वैष्णवेन परंतप ॥ १४ ॥
तावच्छत्रुगणान्सर्वान्समरेषु विजेष्यसि ॥
स्थातुं न शक्तास्तव दैत्यसेना अस्तायुधस्य प्रमुखे द्विजेन्द्र ॥
आदाय चापं युधि वैष्णवं तत्तूणं तथेमं जहि देवशत्रून् ॥ १९ ॥
इति श्रीविष्णुधर्मोत्तरे मा० सं० प्रथमखण्डे रामं प्रति शङ्करानुशासने षट्षष्टितमोऽध्यायः ॥ ६६ ॥।