विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६७
वेदव्यासः
अध्यायः ०६८ →

राम उवाच ॥।
वैष्णवं चापरत्नं तत्किमर्थं भवता करे ।।
न्यस्तं च तन्मे भगवंश्चापरत्नं च कीदृशम् ।। १ ।।
शङ्कर उवाच ।।
माया हि वैष्णवी राम यया संमोहिताः पुरा ।।
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिता ।। २ ।।
यजतां परमाधारं देवं कमलसंभवम् ।।
भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतः ।। ।। ३।।
देवा ऊचुः ।।
वासुदेवस्य देवस्य महादेवस्य चाप्यथ ।।
अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते ।।४ ।।
शङ्कर उवाच ।।
एवमुक्तस्सुरैः सर्वैर्ऋषिभिश्च पितामहैः ।।
विहस्योवाच तान्सर्वांस्तयोर्गत्वा परस्परम् ।। ५ ।।
ब्रह्मोवाच ।।
जनयध्वं सुराः सर्वे विरोधमृषिभिस्सह ।।
विरोधे तु समुत्पन्ने तयोर्युद्धं उपस्थिते ।। ६ ।।
ज्ञास्यध्वमन्तरं देवास्तयोर्नास्त्यत्र संशयः ।।
शङ्कर उवाच ।।
एवमुक्ताः सुराः सर्वे सार्धमृषिगणैस्तदा ।। ७ ।।
आवयोर्जनयामासुर्विरोधं भृगुनन्दन ।।
विष्णोराधिक्यमन्विच्छंस्तस्य मायाविमोहिताः ।। ८ ।।
कृतवानस्मि दैवेन देव वाक्येन विग्रहम् ।।
प्रभावदर्शनार्थाय त्वावयोर्विग्रहे तदा ।। ९ ।।
आसन्नमभवद्युद्धं सर्वसत्त्वभयङ्करम् ।।
आवयोर्भृगुशार्दूल तदा युद्धे उपस्थिते ।। 1.67.१० ।।
आजगामाथ तं देशं ब्रह्मा शुभचतुर्मुखः ।।
देवा ब्रह्मर्षयश्चैव तथा राजर्षयोऽमलाः ।।१ १ ।।
सर्वेषां समवेतानामावयोर्युद्धसंगरे ।।
उवाच वचनं ब्रह्मा सर्वलोकनमस्कृतः ।। १२ ।।
ब्रह्मोवाच ।।
न कर्तव्यं जगन्नाथौ युद्धं परमदारुणम् ।।
युष्मद्युद्धेन सकलं नश्यतीदं जगत्त्रयम् ।। १३ ।।
गृहीतं चापरत्नं यत्स्वयं देवेन चक्रिणा ।।
तदारोपयतां शूली शूलिचापं जनार्दनः ।। १४ ।।
ज्ञास्यामि चान्तरं देवौ चापारोपणकर्मणा ।।
शङ्कर उवाच ।।
एवमुक्ते मम कराद्धनुर्जग्राह केशवः ।।
आरोपितुं न मे शक्तिः सर्वयत्नेन चाभवत् ।। १५ ।।
ततश्च गतमोहेन मया ज्ञातो महेश्वरः ।।
ज्ञात्वा विसृष्टचापेन स्तुतश्च भगवांस्तदा ।। १६ ।।
नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते सर्वगुणान्तराय ।।
नमोऽस्तु ते देवगणार्चिताय नमोऽस्तु ते सर्वगुणोत्तराय ।। १७ ।।
उन्मेषमात्रेण तवाप्रमेय दिनं समग्रं प्रपितामहस्य ।।
निमेषमात्रेण निशा प्रदिष्टा यस्यां समादाय जगत्स शेते ।। १८ ।।
न कारणं वेद्मि तवेश सृष्टौ संहारकार्यं च तथा न वेद्मि ।।
आद्यं न मध्यं न तथैव चान्तं त्वमेक ईशः पुरुषः पुराणः ।। १९ ।।
सर्वेषु भूतेषु तथा स्थितस्त्वं सर्वाणि भूतानि तथा तवेश ।।
भूतान्तरस्थोऽपि न भूतसंस्थ आश्चर्यमेतन्मम देवदेव ।। 1.67.२० ।।
भूतान्तरस्थोपि न भूतनाथः भूतार्जितैः कर्मभिराप्यसे त्वम् ।।
कर्माणि सर्वाणि जगत्त्रयस्य धर्मे सदा यन्महदद्भुतं तत् ।। २१ ।।
गन्धः पृथिव्यां च रसोऽप्सु देव वायौ यथा स्पर्शगुणस्त्वदीयः ।।
रूपं तथाग्नौ गगने च शब्दो गुणा समग्रास्तव भूतसंघे ।। २२ ।।
मनोगतस्त्वं च तथा वितर्को बुद्धौ गतस्त्वं च विनिश्चयोऽत्र ।।
चिद्रूपमात्मन्यथ देवदेव अव्यक्तसंस्थस्य गुणत्रयस्त्वम् ।। २३ ।।
त्वमेव भूतानि च तद्गुणाश्च मूर्तेर्विभिन्नोसि न भूतभिन्नः ।।
तत्त्वानि सर्वाणि च तद्व्यतीतः त्वमेव देवः पुरुषः प्रदिष्टः ।। २४ ।।
तवेच्छया स्यात्सकला त्रिलोकी तवेच्छया देव तथा विनश्येत् ।।
इत्थंविधस्यानघ कर्मणस्ते स्तुतिः कथं स्यात्परमस्य धाम्नः ।। २५ ।।
एवं स्तुतो देववरो मयासावुवाच मां देवगणस्य मध्ये ।।
योऽहं स देवः परमेश्वरस्त्वं योऽहं स देवः प्रपितामहश्च ।। २६ ।।
आश्रित्य मूर्तित्रितयं मयेदं कर्मत्रयं शङ्कर साध्यते वै ।।
उत्पत्तिनाशौ परिपालनं च कालत्रये शङ्कर देवकार्यात् ।। २७ ।।
मूर्तिर्ममोग्रा जगतां तवेयं संहारकार्यार्थमुदीर्णदर्पा ।।
त्प्रभुर्भवः कारणकारणानां पूज्यश्च सर्वेश्वर सर्वदेवैः ।। २८ ।।
ये त्वां नमस्यन्ति जगत्प्रधानं भक्तिं परा ये च वहन्ति तुभ्यम् ।।
भक्त्या च नित्यं तव पूजयन्ति स्थानं हि तेषां सुलभं मदीयम् ।। २९ ।।
मदीयमेतद्भुवि चापरत्वं प्रदीयतां भार्गवनन्दनाय ।।
ऋचीकपुत्राय गुणाधिकाय तस्मात्समादास्यति तस्य पुत्रः ।। 1.67.३० ।।
स तेन चापेन निहत्य शत्रून्कृत्वा च लघ्वीं वसुधां सुरेश ।।
तच्चापरत्नं भुवि राघवाय प्रदास्यते राम इति श्रुताय ।।३१।।
कृत्वा स रामोपि हि तेन कर्म प्रदास्यते तद्वरुणाय चापम् ।।
तस्मात्समादास्यति फाल्गुनोऽपि देवार्थकार्यैकरतिर्महात्मा ।। ३२ ।।
स्वं चापरत्नं जनकाय देहि निमीतिनाम्ना भुवि शब्दिताय ।।
तेनापि चापेन स तत्प्रसूतो राजा महत्कर्म करिष्यतीति ।।३३।।
...दुक्त्वा भगवान्महात्मा जगाम काष्ठां मनसस्त्वभीष्टाम् ।।
मया तथा ते भुवि चापरत्ने द्विजप्रधान क्षितिपेषु दत्ते ।। ३४ ।।
यद्वैप्णवं चापवरं पितुस्ते न्यस्तं करे वासुकितुल्यरूपम् ।।
तद्देवकार्येण विना न शक्यं केनाप्यधिज्य युधि राम कर्तुम् ।। ३५ ।।
अज्ञातवस्तुरचितं सुरकार्यदक्षं गोविन्दबाहुविटपाश्रयलब्धमानम् ।।
न्यस्तं पुरा पितृकरे तव युद्धशौण्ड चेत्थं मया हरिवचः प्रसमीक्ष्य राम ।।३६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० वैष्णवधनुःप्रादुर्भावो नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।