सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६५

विकिस्रोतः तः
← अध्यायः ०६४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६५
वेदव्यासः
अध्यायः ०६६ →

शङ्कर उवाच ॥
जानुतुल्यं मृदुशुभं चैलाजिनकुशोत्तरम् ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ १॥
चतुर्णामासनानां च बद्ध्वा तत्रैकमासनम् ॥
योगं युञ्जीत विधिवद्यथावदुनुपूर्वशः ॥ २ ॥
राम उवाच ॥
योगासनानि चत्वारि भगवन्कानि ब्रूहि मे ॥
येषामेकमथास्थाय योगं युञ्जीत मानवः ॥ ३ ॥
शङ्कर उवाच ॥
स्वस्तिकं सर्वतोभद्रं पर्यङ्कं कमलासनम् ॥
योगासनानि चत्वारि तेषां वक्ष्यामि लक्षणम् ॥ ४ ॥
आसन्ने जानुनी कृत्वा यथावत्सुसमाहितः ॥
वामं कृत्वेतरे पादे वामजङ्घोरुपीडितम् ॥ ५॥
स्वस्तिकं नाम तत्प्रोक्तमासनं प्रथमं शुभम् ॥
ऊरू च जानुनी जङ्घे यत्रासनगतः समम् ॥६॥
आसनं सर्वतोभद्रं तद्विद्धि मनुजोत्तम ॥
पर्यङ्के योगपट्टेन बध्नीयात्पृष्ठयोगतः ॥ ७ ॥
आकुञ्च्य जानुनी सम्यक्पादं कृत्वा च बाह्यतः ॥
दक्षिणं वामजङ्घायां पर्यङ्कासनकारणम् ॥ ८॥
आसने सर्वतोभद्रे यदा भवति मानवः ॥
ऊरुस्थोत्तानचरणस्तदा स्यात्कमलासनम् ॥ ९ ॥
आसनस्थस्य करणं निबोध गदतो मम।।
समानीयोरुमूलेन हस्तौ भार्गव तिर्यगौ।।1.65.१०।।
कृत्वोत्तानौ समौ विद्वान्वामस्योपरि दक्षिणम्।।
अङ्गुलीच्छादकं विद्वानङ्गुली नां तु विन्यसेत् ॥ ११ ॥।
किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्तव्यौ च तथा करौ ॥
उरश्चोत्थाप्य विततं कृत्वा राम परिश्लथम् ॥ १२॥
पृष्ठमाकुञ्चयेत्स्कन्धे देहमुन्नामयेत्सुधीः ॥
निष्कम्पां सुदृढामृज्वीं नातिस्तब्धां न कुञ्चिताम् ॥ १३॥
ग्रीवां विधारयेद्यत्नाच्छिरः कार्यं समं सदा ॥
संपस्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १४॥
किञ्चिन्निमीलिते नेत्रे दन्तैर्दन्तान्न संस्पृशेत् ॥
तालुमध्यगतेनैव जिह्वाग्रेण समाहितः ॥ १९॥
स बद्धकरणो विद्वानभ्यासात्पवनं जयेत् ॥
जित्वा वायुं यथाशक्ति योगं युञ्जीत बुद्धिमान् ॥ १६ ॥
आदौ तु चिन्तयेत्स्थूलां भूमिं पञ्चगुणान्विताम् ॥
लब्धलक्षो महायोगी भूमियोगं समुत्सृजेत् ॥ १७ ॥
ततश्चतुर्गुणं ध्यानं कर्तव्यमुदके द्विज ॥
लब्धलक्ष अपां योगी जलयोगं समुत्सृजेत् ॥ १८ ॥।
ततस्तु योगं युञ्जीत त्रिगुणं द्विज तेजसि ॥
लब्धलक्षश्च तत्रापि वह्नियोगं समुत्सृजेत् ॥ १९ ॥
ततस्तु योगं युञ्जीत पवने द्विगुणं द्विज ।।॥
लब्धलक्षश्च तत्रापि वायुयोगं समुत्सृजेत् ॥ 1.65.२० ॥।
ततस्त्वेकगुणं योगं युञ्जीत गगने बुधः ॥
लब्धलक्षश्च तत्रापि मनोयोगगतिर्भवेत् ॥ २१ ॥
मनसश्चन्द्रमाः प्रोक्तः प्रथमं चन्द्रमण्डले ॥
ऊर्ध्वलक्षं बुधः कृत्वा चन्द्रमण्डलमध्यगे ॥ २२ ॥
अङ्गुष्ठमात्रे पुरुषे लक्षबन्धं तु कारयेत् ॥
शशाङ्कशतसंकाशे सर्वालङ्कारभूषिते॥२३॥
लब्धलक्षश्च तत्रापि बुद्धियोगगतिर्भवेत्॥
बुद्धिश्च भगवान्सूर्यः प्रथमं सूर्यमण्डले।।२४।।
समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान्।।
सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम्।।२५।।
अङ्गुष्ठमात्रं पुरुषं सर्वाभरणभूषितम् ॥
चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥ २६ ।॥
लब्धलक्षश्च तत्रापि नित्यमात्मानमात्मना ॥
आत्मस्थमेव s संपश्येद्ध्यानयोगेन भार्गव ॥ २७ ॥
अङ्गुष्ठमात्रं पुरुषं सूर्यबिम्बगतं यथा ॥
ध्यानयोगेन संपश्येत्तथा पश्येत्तथात्मनि ॥ २८ ॥
अधोमुखे हृत्कमले कर्णिकायां भृगूत्तम।।
लब्धलक्षश्च तत्रापि अव्यक्तं चिन्तयेत्पदम्।।२९।।
बहिरन्तश्च सर्वत्र तेजसा तत्र चिन्तयेत् ॥
नैवार्केण न चन्द्रेण सर्वं व्याप्तमशेषतः ॥ 1.65.३० ।॥
लब्धलक्षश्च तत्रापि पुरुषं चिन्तयेत्परम् ॥
शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥ ३१ ।।॥
साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम् ॥
अन्यथा तु सुकष्टं स्यान्निरालम्बस्य चिन्तनम् ॥ ३२॥
चित्तवृत्तिनिरोधो हि दुष्करः प्रतिभाति मे ॥
तत्र यत्नः सदा कार्यो विजये पवनस्य च ॥ ३३ ॥
चित्तवृत्तिनिरोधेन पवनस्य जयेन च ॥
उपासनाया शून्यस्य निष्फलत्वं विधीयते ॥ ३४ ॥
अरूपगन्धमनसं शब्दस्पर्शविवर्जितम् ॥
सर्वेन्द्रियगुणं राम सर्वस्थं सर्वगं च यत् ॥३५॥
( तं ध्यायन्पुरुषं तस्य ध्यानं शून्यं प्रकीर्तितम् ॥ )
तस्य स्वरूपं विज्ञाय राम शून्यमुपासतः ॥ ३६ ॥
सर्वबन्धनमुक्तस्य निष्फलत्वं विधीयते ॥
अखण्डकारिणस्त्वेवं नित्यं भृगुकुलोद्वह ॥ ३७ ॥
संवत्सरशते पूर्णे सत्रिभागे महाभुज ॥
निष्फलत्वं परं स्थानं ध्रुवं भवति भार्गव ॥ ३८ ॥
राम उवाच ॥
संवत्सरशतं पूर्णं त्रिभागसहितं विभो ॥
अजीवतो निष्फलत्वं कथं भवति शङ्कर ॥ ३९ ॥
शङ्कर उवाच ॥
अखण्डकारी भवति यद्येकमपि जन्मनि ॥
जन्मक्रमादवश्यं हि राम जन्मनिजन्मनि ॥ 1.65.४० ॥
पूरणीयं सत्रिभागं ध्रुवं तेन समाः शतम् ॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४१ ॥
अखण्डकारिणो राम प्रवृत्तस्य द्विजन्मनः ॥
अवश्यमेव तत्स्थानं यद्विष्णोः परमं पदम् ॥ ४२ ॥
राम उवाच ॥
अखण्डकारिता प्रोक्ता त्वया देव द्विजन्मनाम् ॥
शूद्रो वा यदि वा नारी कथं स्थानमवाप्नुयात् ॥ ४३ ॥
शङ्कर उवाच ॥
अखण्डकारिणी पत्नी प्राप्नोति परमं पदम् ॥
शूद्रः स्वकर्मनिरतः केशवार्पितमानसः ॥ ४४॥
जात्यन्तरमथासाद्य भक्तियोगेन भावितः ॥
अखण्डकारी भवति ततः प्राप्नोति तत्पदम् ॥ ४९ ॥
मार्कण्डेय उवाच ॥।
एतावदुक्तं देवेन त्र्यम्बकेण महात्मना ॥
तदा तुष्टेन रामाय रहस्यमृषिपूजितम् ॥ १६॥
एतद्बलिविहीनाय न तु वाच्यं यदूत्तम् ॥
न नास्तिकाय मूर्खाय तर्कदुष्टाय वा तथा ॥ ४७॥
एतत्तु शृण्वते वाच्यं शिष्याय च सुताय च ॥
यो वा दद्यान्महीं कृत्स्नां सशैलवनकाननाम् ॥ ४८ ॥
एतद्गुह्यं परं पुण्यं पवित्रं पापनाशनम् ॥
आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम् ॥ ४९॥
अध्येतव्यमिदं सम्यग्वचनं शंकरस्य च ॥
सर्वबन्धविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ 1.65.५० ॥
एतावदुक्तं त्रिपुरान्तकेन तुष्टेन रामस्य महाबलस्य ॥
मया तथा तेऽभिहितं नरेन्द्र धार्यं त्वयेदं सततं यथावत् ॥ ९१ ॥
इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासमाप्तिर्नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥।