विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००२

विकिस्रोतः तः
← अध्यायः ००१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००२
वेदव्यासः
अध्यायः ००३ →

।। मार्कण्डेय उवाच ।। ।।
नारायणं नमस्कृत्य सर्वभूतपरायणम् ।।
लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ।। १ ।।
जगतोऽस्य समुत्पत्तिस्थितिनाशैककारणम् ।।
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ।। २ ।।
वक्ष्यामि जगतां राजन्समुत्पत्तिं निबोध ताम् ।।
सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ।। ३ ।।
नारायणोऽस्य जगतः सृष्टिसंहारपालनम् ।।
करोति जगतीपाल यस्य सर्वमिदं महान् ।। ४ ।।
वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ।।
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ।। ५ ।।
यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ।।
निमेषस्तु तथा रात्रिस्तच्च कल्पं प्रकीर्तितम् ।। ६ ।।
पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ।।
न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ।। ७ ।।
न तस्य परिमाणं वा न चादिर्निधनं कुतः ।।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ।। ८ ।।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।। ९ ।।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।।
तं च प्राप्य भवन्तीह ये मुक्ताः पुरुषोत्तमाः ।। 1.2.१० ।।
सुगतिर्योगसिद्धानां तस्मात्सर्वस्य सम्भवः ।।
तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ।। ११ ।।
तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ।।
तस्मात्तेजस्ततस्त्वापस्तेभ्योण्डमभवत्किल ।। १२ ।।
अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ।।
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ।। १३ ।।
ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ।।
शरीरग्रहणं कृत्वा सृजतीदं चराचरम्।। १४ ।।
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ।।
सप्तलोकान् सपातालान्सप्तद्वीपार्णवां महीम् ।। १५ ।।
सृष्टिं कृत्वा स भगवान् सात्त्विकीमास्थितस्तनुम् ।।
क्षीरोदे केशवो भूत्वा शेषभोगमयः प्रभुः ।। १६ ।।
लक्ष्मीसहायो लोकांस्तु सर्वान्पालयते सदा ।।
योगनिद्रां समास्थाय सर्वसत्त्वशरीरगः ।। १७ ।।
शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ।।
अन्तकाले हरो भूत्वा जगत्संहरते पुनः ।।१८।।
तामसीं तनुमास्थाय लीलयैव महायशाः ।।
ब्रह्मातो सृष्टिकाले तु जलमध्यगतां महीम् ।। १९ ।।
दृष्ट्वोद्धरति यज्ञात्मा वाराहीमास्थितस्तनुम् ।।
ब्रह्मास्य सर्गे परिपालने च विष्णुर्महात्मा भवतीह नित्यम्।।
संहारकाले च हरत्वमेति त्रैधं विधत्ते स त्रिकालयोगात् ।। 1.2.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्तिकथनो नाम द्वितीयोऽध्यायः ।। २ ।।