विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००३

विकिस्रोतः तः
← अध्यायः ००२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००३
वेदव्यासः
अध्यायः ००४ →

।।मार्कण्डेय उवाच ।।
ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसम्भवे ।।
विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जलान्तगाम् ।। १ ।।
जलक्रीडारुचि शुभं कल्पादिषु यथा पुरा ।।
वाराहमास्थितो रूपमुज्जहार वसुन्धराम्।। २ ।।

वराहमंदिरम्, खजुराहो

वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ।।

वराह मूर्ति, खजुराहो

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।। ३ ।।
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ।। ।। ४।।
धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ।।
प्रायश्चित्तमयो धीरः प्रांशुजानुर्महायशाः ।।
उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ।। ५ ।।
वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ।।
वेदस्कंधो हविर्गन्धो हव्यकव्यातिवेगवान् ।। ६ ।।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ।।
दक्षिणाहृदयो योगी महाक्रतुमयो महान्।। ७ ।।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः।।
मायापत्नीसहायो वै महाशृंङ्ग इवोदिताम् ।।६।।
महीं सागर पर्यन्तां सशैलवनकाननाम् ।।
एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ।। ९ ।।
दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ।।
आदिदेवो महायोगी चकार जगतीं पुनः ।। 1.3.१० ।।
एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ।।
उद्धृता पृथिवी देवी जलमध्यगता पुरा ।। ११ ।।
उद्धृत्य भूमिं स विभुर्महात्मा वराहरूपेण जलान्तरस्थाम् ।।
चक्रे विभागं जगतस्तदीशो यथायथा तच्छृणु राजसिंह ।। १२ ।।
इति श्रीविष्णुधर्मोऽत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ।। ३ ।।