विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००४
वेदव्यासः
अध्यायः ००५ →

।। मार्कण्डेय उवाच ।।
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ।। १ ।।
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।।
ता राजसर्षपास्तिस्रस्तास्त्रयो गौरसर्षपाः ।। २ ।।
सर्षपाः षड्यवो मध्ये अङ्गुलं च तदष्टकम् ।।
द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयं हस्त उच्यते ।।३।।
तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ।।
क्रोशद्वयं च गव्यूतिः योजनं तच्चतुष्टयम् ।। ४ ।।
योजनानां प्रमाणेन चायुतानां शतत्रयम् ।।
अयुतानां च पञ्चाशच्छेषस्थानं मनोहरम् ।। ५ ।।
स एव लोके वाराहः कथितश्च स्वयं प्रभुः ।।
वाराहरूपी भगवाञ्छतरूपधरस्तथा ।।६।।
तत्रास्ते भगवान्विष्णुर्भक्तैः सह महात्मभिः ।।
लोकोऽयमंडसंलग्नश्छत्राकारः प्रकीर्तितः ।। ७ ।।
स्वयं प्रभुर्वीतरजाः सर्वदुःखविवर्जितः ।।
एकान्तभावोपगतास्तं प्रयान्ति हरि जनाः ।। ८ ।।
सर्वाधस्तादयं लोकः कथितस्ते मनोहरः ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।। ९ ।।
कालाग्निरुद्रलोकस्तु कथ्यतेऽग्निसमर्चितः ।।
एक एव स तत्रास्ते स्वप्रभाभास्वरात्मकः ।। 1.4.१०।।
तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ।।
भस्मसात्कुरुते सर्वं यच्चेङ्गं यच्च नेङ्गते ।। ११।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।।
पातालनामा पातालः प्रथमः परिकीर्तितः ।। १२ ।।
योगमायां समास्थाय द्वितीयामास्थितस्तनुम् ।।
सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ।। ।।१३।।
रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ।।
तस्मिन्स भगवानास्ते शेषपर्यङ्कमास्थितः ।। १४ ।।
नित्यं तालध्वजो वाग्मी वनमालाविभू षितः ।।
धारयञ्छिरसा नित्यं रत्नचित्रां फणावलीम् ।। १५।।
लाङ्गली मुसली खड्गी नीलाम्बरविभूषितः ।।
स्तूयमानः स गन्धर्वैर्नागैर्ऋषिवरैस्तथा। ।।१६।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
सुतलसंज्ञः पाताल शिलाभासः समन्ततः ।।१७।।
बलिस्तु भगवांस्तत्र बहिस्तिष्ठतिसंयतः ।।
रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम् ।। १८ ।।
निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ।।
सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ।। १९ ।।
(फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ।।
तत्रास्ते स महाभागः श्रिया परमया युतः।।1.4.२०।।
तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ।।)
तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ।। २१ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
आभासतल इत्येव पातालो नीलमृत्तिकः ।। २२ ।।
तृतीयः स तु विख्यातः सुरभिर्यत्र तिष्ठति ।।
दिग्धेनवस्तथा तत्र चतस्रश्च तथा स्थिताः ।। २३ ।।
सुभद्रा वह्निरूपा च विश्वरूपा तथैव च ।।
रोहिणी च महाभागा याभिर्वृतमिदं जगत् ।। २४ ।।
तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ।।
पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोरमम्।। ।। २५ ।।
यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगस्तथा ।।
अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ।। २६ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
पीतभौमश्चतुर्थस्तु गभस्तितलसंज्ञितः ।। २७ ।।
तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ।।
शशांकशतसंकाशः शातकौंभविभूषणः ।। २८ ।।
पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ।।
(प्रह्रादस्यासुरेन्द्रस्य बाष्कलेश्च महात्मनः) ।। २९ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
महा तलेति विख्यातो रक्तभौमस्तुपञ्चमः ।। 1.4.३० ।।
सरोवरं तस्य मध्ये योजनानां दशायुतम् ।।
जंगमाजंगमैः सर्वेर्जलजैश्च विवर्जितम्।। ३१ ।।
तत्रारूपेण वसति कूर्मरूपधरो हरिः ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।। ३२ ।।
षष्ठश्चैव महाराज नाम्ना भीमतलस्तु सः ।।
तत्रापि सरसी दिव्या योजनानां शतं गता ।।
तस्यां च वसते देवो मत्स्यरूपधरो हरिः ।। ३३ ।।
सप्तमः कृष्णभौमस्तु नाम्ना भीमतलस्तु सः ।।
तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ।। ३४ ।।
तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ।।
तथा दानववीराणां नगराणि पृथक्पृथक् ।।३५ ।।
विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ।।
शम्बरस्य करालस्य नरकस्य हयस्य च ।। ३६ ।।
हयग्रीवस्य सुन्दस्य घसस्य प्रघसस्य च ।।
बलेः पुरवरं चात्र योगीशस्य तथापरम् ।।३७।।
यत्रस्थमेनं ददृशे रावणो लोकरावणः ।।
तथा पुरवरं तत्र विष्णोरमिततेजसः ।।३८।।
लक्ष्मीसहायो यत्रास्ते चाग्नेयाम्बरसंवृतः ।।
तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम् ।। ३९ ।।
शङ्खचक्रगदापद्मधारिणां पीतवाससाम् ।।1.4.४०।।
नीलोत्पल सवर्णानां विष्णोः सदृशतेजसाम् ।।
विष्णोः सुतानां हृष्टानां सततं भूरिवर्चसाम्।। ४१ ।।
तत्रस्थो दृष्टवान्देवो पौलस्त्यो रावणः पुरा ।।
पुरी भोगवती तत्र तथा वासुकिपालिता ।। ४२ ।।
नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ।।
पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा ।। ४३ ।।
तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ।।
धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च ।। ४४ ।।
कन्दलस्य सुरासस्य सुमुखस्य गयस्य च ।।
दिशां गजानां च तथा तत्र स्थानं पृथक्पृथक् ।। ४५ ।।
येषां स्कंधगता भूमिः सशैलवनकानना ।।
विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ ।। ४६ ।।
तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ।।
पश्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव ।। ४७ ।।
पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ।।
अण्डस्यार्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः ।। ४८ ।।
तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ।।
पञ्चान्यानि महीपाल भूमि पुष्ट्या महानघ ।। ४९ ।।
पञ्चायुतपरीमाणाः पुष्टिर्भूमेः प्रकीर्तिता ।।
भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ।।
एतावदेव निर्दिष्टा भूमिपाल प्रमाणतः ।। 1.4.५० ।।
चन्द्रार्कभासा रहितं नृवीर स्वयं प्रभेदं कथितं मयैतत् ।।
पातालपूगं विविधं सुरम्यं शृणुष्व लोकान् गदतो ममान्या न् ।। ५१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः ।। ४ ।।