विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००१

विकिस्रोतः तः
← खण्डः १ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००१
वेदव्यासः
अध्यायः ००२ →

श्रीगणेशाय नमः ।।

श्रीनारायणाय नमः ।।

अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
कृतवर्मा तथा भोजः श्वेतो माहिष्मतीपतिः ।।
कुलिन्दः सर्वदमनो मालविश्चन्द्रवर्द्धनः ।। २ ।।
वत्सनाभश्च बाणश्च नन्दीशो दरसत्पतिः ।।
प्रतिसारश्चित्रधनुस्सर्वो वायुरथस्तथा ।। ३ ।।
द्रविडः कुसुमापीड ओत्रश्च समरप्रियः ।।
शम्भुः किरातराजश्च औरसो नन्दिवर्धनः ।। ४ ।।
वटुमूलश्च तूनेशः शाल्वश्च जनमेजयः ।।
सुह्यराजो दधीकर्णो बाह्लीको दमनस्तथा ।। ५ ।।
हिरण्यनाभः कौसल्यो दाशार्हो विजयस्तथा।।
एते चान्ये च राजानः शतशो बहुदक्षिणाः ।। ६ ।।
सम्पूर्णचन्द्रवदना गजराजकरोरवः ।।
उपासांचक्रिरे वज्रं सिहासनगता नृपाः ।। ७ ।।
बहुभिर्भूमिपालैश्च तथा वज्रेण धीमता ।।
युधिष्ठिरेण च सदा शोभिता शुशुभे सभा ।।८।।
राजानस्ते ततो दृष्ट्वा ऋषीन्दुर्लभदर्शनान्।।
ब्रह्मलोकस्थमात्मानममन्यन्त यशोभृतः ।। ९ ।।
ऊचुस्ते प्रणयाद्वाक्यं वज्रं भूरिसहस्रदम् ।।
यथा त्रेतायुगे राजन्द्वापरे च यथा नृपाः ।।
ब्राह्मणा ब्रह्मकल्पाश्च तथैव सुसमागताः ।। 1.1.१० ।।
अस्मिंस्तिष्ये च संप्राप्ते तव राजन्प्रसादतः ।।
राजन् कृष्णसगोत्रोऽसि तेनेयन्ते सभा नृप ।। ११ ।।
उपास्यते महाभागैर्ब्रह्मकल्पैस्तपोधनैः ।।
....... . . .. न तथा वीर्यनिर्जिता ।। १२।।
भक्त्या यथा तु तस्यैव कृष्णस्यामिततेजसः ।।
तेन कृष्णेन ये चक्रुर्व्यतीताः पूर्वपार्थिवाः ।। १३ ।।
वर्त्तता तेन कृष्णेन ते राजन्मोक्षमाप्नुयुः।।
अथ तिष्ययुगः प्राप्तो घोरः परमदारुणः ।। १४।।
दुर्लभं दर्शनं यत्र नृपसंघे महात्मनाम् ।। १५ ।।
तस्मात्त्वं राजशार्दूल प्रष्टुमर्हो द्विजोत्तमान् ।।
वैष्णवान्विविधान्धर्मान्सरहस्यान्ससंग्रहान्।। १६।।
इत्येवमुक्तो वज्रस्तैस्त्यक्त्वा सिंहासनं तदा ।।
वज्रं तु प्राञ्जलिं दृष्ट्वा सर्व एव नराधिपाः ।। १७ ।।
वरासनान्विहायाशु तस्थुः प्राञ्जलयस्तदा ।।
वज्र उवाच ।। भवद्भिर्नृपशार्दूलाः प्रार्थिता ये द्विजाः श्रिताः ।। १८ ।।
अनुग्रहार्थं भूपानां जगतो हितकाम्यया ।।
भवन्तो वक्तुमर्हन्ति विष्णुधर्मान्सनातनान् ।। १९ ।।
तस्मात्तिष्ययुगे नास्ति भवतो दर्शनं नृपैः ।।
ऋषय ऊचुः ।।
उत्तिष्ठ त्वं महीपाल अलङ्कुरु स्वमासनम् ।। 1.1.२० ।।
श्रवणेपि वयं तस्य विशेषेणार्थिता नृप ।।
वज्र ते संशयान्सर्वाञ्छेत्स्यत्येष महामुनिः ।। २१ ।।
इत्येवमुक्त्वा वज्रं ते ऋषयस्तपसि स्थिताः ।।
मार्कण्डेयमथोचुस्ते ब्रूहि धर्मान्महीपते।।२२।।
वैष्णवान्विविधान्धर्मांल्लोकानामघहारिणः।।
तथा पार्थिवसंघस्य संशयान् मनसि स्थितान्।।२३।।
मार्कण्डेय उवाच।।
ब्रह्मण्यः सत्यवान् धन्यः सर्वशत्रुनिबर्हणः।।
यद्यत्पृच्छसि मां वज्र तत्तद्वक्तास्म्यसंशयम्।।२४।।
सिहासनस्थो भव भूमिपाल क्वैत्रकारुत्व भवन्तु सर्वेऽपि तथा महीपाः ।।
सुखोपविष्टैरिह भूमिपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ।। २५ ।।
इत्येवमुक्तः स यदुप्रधानो भृगुप्रबर्हेण महर्षिमध्ये ।।
प्रणम्य विप्रान्स जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ।। २६ ।।
सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपप्रधानाः ।।
सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ।। २७ ।।
वज्र उवाच ।।
आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ।। ।
शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावनं नाम प्रथमोऽध्यायः ।। १ ।।