पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३८१ गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ॥ जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥ २२ ॥ निःशेपेन्द्रियजाड्यत्दृन्नवनवाहूलादं मुहुस्तन्वती नित्याश्लिष्टरजोयतीशाचरणाम्भोजाश्रया श्रेयसी ॥ निष्प्रत्यूहविजूम्भमाणवृजिनस्योद्धासना वासना निःसीमा त्दृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥ २३ ॥ फलितैरिव सत्त्वपादपै परिणामैरिव योगसंपदाम् ॥ समयैरिव वैदिकश्रियां सशरीरैरिव तत्त्वनिर्णयै ।। २४ ।। ४८ त्संकुटुम्बेरुपशान्तिकान्तया । अतदन्यतयाऽखिलात्मकै रनुगृहेोय कदा नु धामभिः ॥ २५ ॥ तथा करुणानिधिर्गुरुरपि यदि संनिधिं न विधास्यति तर्हस्माकं कापि गतिर्नास्ती त्याशयेनाऽऽहुः । करुणानिधिना गुरुणाऽपि यदि त्यक्ता वयमधुना संनिहिता न विहैि तास्तर्हि विपदन्तकरं तत्स्वपदं भजतां पुनश्चेदं सवै त्यजतां जगति क गतिर्भ कापीत्यर्थः । ‘इह तोटकमम्बुधिसैः प्रथितम्’ ॥२२॥ [ स्वपदं ब्रह्मात्मैक्यलक्षणमद्वत स्थानम् ] ॥ २२ ॥ नन्वेवंभूतगुरुविरहवतां भवतां कथं जीवनमिति तत्राऽऽहु । सर्वेन्द्रियजाड्य हृद्यो नवैननवैनाङ्लादस्तं मुहुर्वितन्वती पुनश्च नित्यमश्लिष्टमस्पृष्टं रजो याभ्यां ते रजोगुणलक्षणपांसुविनिर्मुक्तयतीशस्य चरणकमले अभाश्रयो यस्या अत एव श्रेयस्यति श्रेष्ठा पुनश्च निष्प्रत्यूहं निर्वित्रं यथा स्यात्तथा विजूम्भमाणस्य वृजिनस्योद्वासना विनाशिका निरवधिरूपा वासना सा दृदयेन कल्पितालिङ्गना चिरं भाव्यते । तथाच गुरुचरणवासनाभावनमेव जीवनसाधनमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ २३ ॥ [ वासना भावनाख्यविजातीयपत्ययरहितसजातीयप्रत्ययसंततिरिति यावत् ] ॥२३॥ तत्रै कश्चिदौत्सुक्यमाविष्कुर्वन्नाह । सत्त्वपादपैव्र्यवसायरुपवृझैः फलितैरिव योगसं १ घ. 'त्सकलत्रैरु'। २ ख. घ* "वानो न'। ३ ख. ध. 'वीन अ , हून्या'। ४ क. ख. ग. 'त्र