पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । अविनयं विनयन्नसतां सता मतिरयं तिरयन्भवपावकम् ।। जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥ २६ ॥ विगतमोहतमोहतिमाप्ययं विधुतमायतमा यतयोऽभवन् । अमृतदस्य तदस्य दृशः स्मृता ववतरेम तरेम शुगर्णवम् ॥ २७ ॥ शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिंधय क्षपान्धमतपान्थदुष्कथकदम्भकुक्षिभरिः ।। कदा भवसि मे पुनः पुनरनाद्यविद्यातम मृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ।। २८ ॥ [ सर्गः १० ] पदां परिणामैरिव वैदिकश्रियां समयैर्भसैरिव 'समयः शपथे भाससंपदोः' इति विश्वम काशा:। तत्त्वनिर्णयैः शरीरवद्भिरिव निजलाभवैभवात्सधनैरिवोपशान्तिलक्षणया कान्तया कलत्रसहितैरिव तेभ्योऽन्यस्याभावतया सकलात्मकैस्तेजोभिः कदान्वनुगृह्ययानुगृहीतो भविष्यामीति द्वयोरर्थ । वियोगिनी वृत्तम् ॥ २४ || २५ ॥ [ सत्त्वं सत्त्वगुणस्तल क्षणा ये पादमाः कल्पद्रुमास्तैः फलितैरिव स्थितैरित्यर्थः ] ॥ २४ ॥ २५ ॥ तत्र कश्चिदतीव दुःखित आचार्य एव मम गतिं विधास्यतीत्याह । असताम विनयं विनयन्दूरीकुर्वन्सतामातवेगवन्तं संसारान्नेि तिरयन्नपगतं करिष्यन्यो यति योगभृतां वरो जगति जयत्येष मम गति विधास्यति । दुतविलम्बितं वृत्तम् ॥ २६ ॥ [ यतीति । यतीन्द्रयोगीन्द्राणां मध्य इत्यर्थः ] ।। २६ ।। केचित्तु तद्दर्शनेनैव शोकसागरस्य तरणं मत्वाऽऽहुः । यं विगता मोहलक्ष णतमसां संहतिर्थस्मान्निरावरणतत्त्वज्ञानवन्तं प्राप्य यतयो विधुतमायतमा अतिशयेन विधुता कम्पिता माया यैस्तथाभूता अभवंस्तस्यास्यामृतैपदस्य चक्षुषो मार्गे यदाऽ वतरेम तदा शोकसमुद्र तरेम ॥ २७ ॥ [ अमृतदस्य कैवल्यप्रदस्यास्य श्रीभाष्य कारस्य ] ॥ २७ ॥ सकलानर्थनिवर्तकमद्वयानन्दप्रापकं तदीयमुपदेशं स्मरन्कश्चिदाह । पुनः पुनऽ नाद्यविद्यातमो विमृद्य गलितद्वतमद्वयं पदमुदश्चयन्प्रकाशयन्पुण्यापुण्यविभाजकस्फु रणदृष्टर्मुष्टिधयः साराकर्षको राञ्यन्धकारात्मकषु मतषु पान्थानां मध्ये ये दुष्कथ १ क. प्रमृज्य । २ क. ख. घ. 'हीता भूयास्मेति । ३ ख. 'तद। ४ क. विमृज्य ।