[ सर्गः ९ ] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलितः । इति युक्तिमद्वदितमाकलय न्मुदितान्तरः श्रुतिसरिज्जलधिः ॥ स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥ ६२ ॥ अथ सा कथा प्रववृतं स्म तयो रुभयोः परस्परजयोत्सुकयोः ॥ मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥ ६३ ॥ अनयोर्विचित्रपदयुक्तिभरै नैिशमय्य संकथनमाकलितम् ॥ न फणीशमप्यतुलयन्न पंपों न गुरुं कविं किमपरं जगति ॥ ६४ ॥ न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ॥ इति जल्पतोः सममनल्पधियो र्दिवसाश्च सप्त दश चात्यगमन् ॥ ६९ ॥ ३६१ इत्येवं युक्तियुक्तं तया कथितमाकर्णयन्मुदितान्तरः श्रुतिलक्षणानां नदीनां समुद्रः स श्रीशंकरो वचसामधिष्ठात्र्या देवतया सरस्वत्या विदुषां सदासि वादभियेषेच्छति स्म ॥ ६२ ॥ [ श्रुतीति । श्रुतय एव सरितस्तासां जलविः पर्यवसानभूमित्वेन समुद्र इत्यर्थः ] ॥ ६२ ॥ अथानन्तरं परस्परजयोत्सुकयोः श्रुत्या श्रवणेन विस्मयीकृता विचक्षणा याभ्यां तयोर्द्धयोः शंकरसरस्वत्योर्वादकथा प्रववृते । तां विशिनष्टि । बुद्धिचातुर्या रचिता शब्दझरी यत्र सा ॥ ६३ ॥ विचित्रपदयुक्तिभरैव्यप्तमनयोः कथितं श्रुत्वा फणीशं शेषमपि नातुलयन्नापि सूर्य नापि बृहस्पतिं नापि शुक्र जगत्यपरं नातुलयन्निति किं वक्तव्यम् ॥६४॥ [विचि त्रेति । विचित्राण्यद्रुतानि पदानि सुबन्तादीनि च तथा युक्तिभराश्च तर्कसमूहाश्च रित्यर्थः ] ॥ ६४ ॥ नैयमिककालं संध्यावन्दनादिषु नियतं कालं विना ॥ ६५ ।।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५९
दिखावट