पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० श्रीमच्छकरदिग्विजयः । इति यायज्जूकसहधर्मचरी कथितं वचोऽर्थवदगार्हपदम् ।। मधुरं निशम्य मुदितः सुतरां प्रतिवतुमैहत यतिप्रवरः ॥ ५८ ॥ पदवादि वादकलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।। तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥ ६९ ॥ स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ॥ यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् ॥ ६० ॥ अत एव गाग्र्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् । किममी भवन्ति न यशोनिधयः ॥ ६१ ।। [ सर्गः ९ ] जगतस्त्वं कारणं सर्वज्ञश्च परमः पुरुषस्तथाऽपि त्वयैव सह वादाथै मम तु हृदय मत्कण्ठां धारयति ॥ ५७ ॥ इत्येवं यजनशीलस्य पत्न्या कथितमर्थवदनिन्दितपदं मधुरं वचो निशम्यात्यन्तं मुदितो यातिश्रेष्ठः श्रीशंकरः प्रतिवत्कुमैच्छत् ॥ ५८ ॥ मे हृदयं वादकलहोत्सुकतां प्रतिपद्यत इति त्वया यदुक्तं हे अबले तदयुक्तं हेि यस्मान्महायशसो वधूजनेन कथां न कथयन्ति ॥ ५९ । [ हेऽबले । एतेन जात्यैव सामान्यतः सावशिाकसामथ्यभावः सूचितः ] ।। ५९ ॥ स्वमतरक्षणाय प्रवृत्तेन त्वयैतन्न वाच्यमित्याशयेन सरस्वत्याह । इहास्मिलोके स्वमतं प्रभेतुं यः प्रयत्नं करोति स वधूजनोऽस्त्वन्यो वाऽस्तु तस्य जये हे भगवन्स्व पक्षरक्षणपैरैर्यत्न: कर्तव्यं एव खलु प्रसिद्धम् ॥ ६० ।। तत्रैवंविधौ वृद्धावुदाहरति । अत एव गाग्र्याख्ययाऽबलया सह याज्ञवल्क्य मुनिराट्कलहमकरोत्तयोः संवादो बृहदारण्यक उक्तस्तथा जनकः सुलभयाऽबलय सह कलहमकरोदिति मोक्षधर्मेघूक्तम् । यदुक्तं महायशास इति तत्राऽऽह । किमेता वताऽमी याज्ञवल्क्यादयी यशेोनिधयो न भवन्त्यपि तु भवन्त्येव ।॥ ६१ ॥ १ ग. घ. 'यैतनं क"। २ ग. घ. 'व्यमेव ।