सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२०७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


संसदि श्रुतिशिरोर्थमुदारं
शंसति स्म स पराशरसूनुः ॥
इत्यपृच्छमहमत्रभवन्तं
सत्यवाचमभियुक्ततमं तम् ॥ ५४ ॥
आर्य वेदनिकरः प्रविभक्तो
भारतं कृतमकारि पुराणम् ।।
योगशास्त्रमपि सम्यगभापि
ब्रह्मसूत्रमपि सूत्रितमासीत् ॥ ५५ ॥
अत्र केचिदिह विप्रतिपन्नाः
कल्पयन्ति हि यथायथमर्थान् ।।
अन्यथा ग्रहणनिग्रहदक्षं
भाष्यमस्य भगवन्करणीयम् ॥ ५६ ।।




 तत्र सभायां स पराशरसूनुः श्रुतिशिरसामर्थमुदारं शंसति स्म । तमभियुक्ततमं
सत्यवाचमत्रभवन्तं पूज्यं श्रीव्यासमिति वक्ष्यमाणमहमपृच्छं पृष्टवान् ॥ ५४ ।।
[ श्रुतीति । वेदान्तार्थम् । औद्वैतब्रह्मात्मैक्यमिति यावत् । उदारं विस्पष्टं यथा स्यात्त
थेत्यर्थः] [ सत्येति ।

'योगिनो द्विविधाः प्रोक्ता युक्तयुञ्जानभेदतः ।
युक्तस्य सर्वदाभानं चिन्तासहकृतोऽपरः’


 इति वचनात्पूर्वविशेषणोक्तयोगीन्द्रवर्यत्वेनैव सत्यभाषित्वसिद्धेर्बह्मवादिनमित्यर्थः ]
[ सत्यवाचमुपवक्ति विनेयमिति पाठे तु यतोऽसौ विनेयं शिष्यं प्रति सत्यवा
चमुपवक्ति नतु प्रतारयत्यतोऽत्रभवन्तं पूज्यं तमहमित्यपृच्छमित्यन्वयः ] ।। ५४ ॥
यत्पृष्टं तदाह । हे आर्य वेदनिकरो वेदनिचयः प्रकर्षेण विभक्तो विलक्षणीकृत
स्त्वयेति शेषः । एवमग्रेऽपि ॥ ५५ ॥ [भो आर्य परमपूज्य बादरायण । त्वयेति
शेषः ] ॥ ५५ ।।
 अत्र ब्रह्मसूत्र इहास्मिलोके केचिद्विपतिपन्ना विप्रतिपत्तिं प्राप्ताः स्वमतानुसारेण
यथायोग्यमर्थन्कल्पयन्ति । तस्माद्धे भगवन्नन्यथार्थग्रह्णनिग्रहे दक्षमस्य ब्रह्मसूत्रस्य
भाष्यं त्वया करणीयम् ॥ ५६ ॥