सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१८९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

मितं पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ॥
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तं तद्विष्णोः परमपदमाख्याति निगमः ॥ १११ ।।




 इति स्मृतेर्युक्तमेव तत्र तथा त्वमिति तत्त्वम् । पक्षान्तरे तु निरुक्तधात्वर्थस्य
गैौणत्वं प्रसिद्धमेवेति व्यतिरेकोऽलंकारः । तदुक्तम् ।

'व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमलाः' इति ]॥११०॥


 एवं ‘तद्विष्णोः परमं पदम्’ इति निगमोऽपि निरुपचारेण श्रीशंकरे वर्तत
इत्याह । मितमिति ।
 ‘एतावानस्य महिमाऽती ज्यायांश्च पूरुषः । पादोऽस्य सवॉ भूतानि ' ।

'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्धतः पृष्ठषु'


 इत्यादिश्रुतेरेकेनैव महसा ज्योतीरूपेण यद्यस्य पादेनेह त्रिभुवनं मितं मापितं
विष्णोस्तु पादद्वयेन त्रिभुवनं मापितं तथा यस्य सत्त्वमबाधितस्वरूपं स्थित्युत्पत्तिलये
ष्वप्यनुस्यूतं विष्णोस्तु सत्त्वं सत्त्वगुणस्थितावेवानुगतम् । सत्वं विशिनष्टि ।
दशाकारातीतमवस्थाकाराभ्यां विनिर्मुक्तं विष्णोस्तु तद्दशाभिराकारैर्भत्स्यादिभिरततिं
न भवति ततस्तस्मात्स्वमहिन्नि विर्वेदेन वैराग्येण सम्यग्बोधेन वा रमणं यस्य तं
श्रीशंकरं वैकुण्ठे लक्ष्म्या क्रीडतो विष्णोः सकाशात्परमं विष्णुसंबन्धि वा परमं
पदमित्यर्थक उक्तनिगमो निरुपचारेणाऽऽख्याति वक्तीत्यर्थः ॥ १११ ॥ [ अथ
क्रमपाठं विष्णोः सकाशादपि श्रीशंकराचार्यस्य व्यतिरेकं व्यनक्ति | मितमिति ।
इह प्रपञ्चे शास्त्रे वा यस्येति शेषः । महसा स्वप्रकाशज्योतीरूपेण । एकेन नतु
द्वाभ्याम् । एतादृशेन पादेनैव

‘पादोऽस्य विश्धा भूतानि त्रिपादस्यामृतं दिवि'


 इति श्रुतेः शिवमद्वैतं चतुर्थे मन्यन्त इत्यादौ वास्तविकचतुर्थत्वाभावेऽपि विश्वाद्यपे
क्षया चतुर्थत्ववत्कल्पितैकदेशापेक्षया तुरीयांशेनवेत्यर्थः । ‘पादा रश्म्यङ्धितुयशाः’
इत्यमरः । नतु चवरणेन । निरवयवत्वात् । एतेन तत्र भूमत्वं ध्वन्यते । ‘विवृतं चैवमेव
ज्योतिश्चरणाभिधानात्' इत्यधिकरणे भाष्ये । त्रिभुवनं त्रैकालिकं दृश्यमपीत्यर्थः । नतु
त्रैलोक्यम्। मितं परिमितमिति यावत् । यथोषरधरण्यवच्छिन्नसूर्यालोकैकदेशपरिमितभेव
मृगजलं तद्वदविद्यावच्छिन्नचैतन्यैकदेशपरिमितमेव निखिलमपि द्वैतजालमस्तीत्याकू