षत्प्रतिपादिततया द्योतयति । श्रुतीत्यादिशिखरिणीभिं: । ‘ब्रह्म वेद् ब्रौव भवति' इति श्रुत्या ब्रह्मवित्वेन शुद्धबहारूपत्वस्यैवाऽऽचार्ये प्रतिपादनात्सकलश्रुतीनां समन्वयाधिकरणन्यायेनात्रैव तात्पर्यपर्यवसानाचायं संपूर्णश्रुतीनां ‘पुमानाक्रीड उद्यानम्' इत्यमराद्विलासस्थानं भवतीति भावः । विग्रहविशिष्टत्वपक्षेऽपि सर्व ज्ञत्वात्तत्त्वमुचितमेवेति बोध्यम् । चतुरास्यपक्षे तु चतुर्वेदाधिकरणत्वं प्रसिद्धमेव । प्रथितेति । 'ब्रह्मसंस्थोऽमृतत्वमेति' इति श्रुतेः प्रथिता शास्त्रप्रसिद्वा परमहंसानां परमहंसपरिव्राजकानामुचिता पुनरावृत्तिविरहाद्योग्या गतिर्विदेहकैवल्यमुक्तियेने त्यर्थः । यद्यपि सिद्धान्ते मुक्तिर्बह्मरुपैव तथाऽपि चरमवृत्तिप्रतिबिम्बितत्वेन तस्या विद्याध्वंसं प्रति करणत्वाद्युक्त एव तृतीयाघटितत्रिपदबहुव्रीहिरित्याकूतम् । पक्षे जगद्विरूयाता ये श्रीपद्मपादाचार्यश्रीमत्सुरेश्चराचार्यादयः परमहंसाः परमहंसारूयसै न्यासिनस्तेषामुचितगति
'गति स्त्री मार्गदशयोज्ञने यात्राभ्युपापयोंः' |
इति मेदिन्यास्तत्त्वसाक्षात्कारो यस्मात्स तथेत्यर्थः । पक्षान्तरे तु
'वेदान्तविज्ञानसुनिश्चितार्था संन्यासयोगाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे' |
इति श्रुतेः प्रसिद्धा परमहंसानां क्रममुक्तीच्छूनां संन्यासिनामुचितगतिस्तत्त्वज्ञानं यस्मात्स तथेत्यर्थः । तथा प्रथिता पुराणपसिद्धा परहंसै राजहंसैरुचितगतिर्विमाना रुतूढत्वेन योग्यगमनं यस्य स तथेति यावत् । तथा । निज इत्यादि । निजे स्वात्मरूपे । सत्ये त्रैकालिकाबाध्ये । धान्नि स्वपकाशे तेजसि । अत एव । त्रिजगत्रैकालिकं द्वैतं तदतिक्रम्य वर्तत इति तथेति यावत् । तत्र । अभिरतः स्वमहिमप्रतिष्ठितत्वाद त्याशयः । पक्षे जीवन्मुक्तत्वेन रममाण इत्यर्थः । पक्षान्तरे निजे स्वकीये । एतादृशे । त्रिजगदिति । विलोक्यूध्र्वस्थ इत्यर्थः । एतादृशे सत्ये सत्यारूये । धान्नि
'धाम देहे गृहे रश्मै स्थानजन्मपभेदयोः। |
इति मेदिन्याः स्थान इत्यर्थः । अभिरतोऽभिविहरमाण इति यावत् । एतादृ. इोऽसै प्रकृतः श्रीशंकराचार्यो नौवास्मिन्विषये नैव विशये नैव संदेह्निः । किंत्वस्मिन्पकृत आचार्ये । बृहेर्धातोरर्थ केवलतयाऽद्वैततया । साक्षादव्यवधानेन । नतु परंपरया । अनुपचरितमगौणम् । कलये वेग्रीति योजना । पक्षे
‘दर्शनादर्शने हित्वा स्वयं केवलरूपतः । यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम्' |
</poem>