तेन भजेः भगः पदम् । करणे घः । खल सञ्चये । अधिकरणे घः । खल इत्यादि । । *खनेर्डडरेकेकबका वाच्या:’ (वा २२३८) आखः-आखरः आखनिकः-आखनिकबक: । एते खनित्रवचनाः ।
३३०५ । ईषदुःसुषु कृच्छाकृच्छार्थेषु खल् । (३-३-१२६)
करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेपूपपदेषु खल्स्यात् । तयोरेव-' (सू २८३३) इति भावे कर्मणि च । कृच्छे, दुष्करः कटो भवता । अकृच्छे । भवता ईषत्करः । सुकरः । *निमिमीलियां खलचोरात्त्वं नेति वाच्यम्’ (वा ३४८७) । ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ।
३३०६ । उपसर्गात्खल्घओोः । (७-१-६७)
उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भ । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । “उपसर्गात्’ किम् । ईषलभ । लाभः ।
३३०७ । न सुदुभ्य केवलाभ्याम् । । (७-१-६८)
उपसर्गान्तरहिताभ्यां सुदुभ्यं लभेर्नुन्न स्यात्खल्घञ्पोः । सुलभम् ।
घश्वत्यर्थ. । नन्वत्र घित्करणं व्यर्थम्, चजेोरभावेन कुत्वस्याप्रसत्तेरित्याशङ्कय आह । धित्करणमिति ॥ भजेर्भग इति ॥ भज्यते इति कर्मणि घः । पदमिति ॥ पद्यते गम्यतेऽनेनेति विग्रहः । खनेरिति ॥ ड, डर, इक, इकबक, एषा चतुर्णा द्वन्द्वः । आख इति ॥ डे रूपम् । आखर इति ॥ डरे रूपम् । उभयत्रापि डित्वसामथ्र्याट्टिलोपः । इके उदाहरति । आखनिक इति ॥ इकबके उदाहरति । आखनिकबक इति ॥ ईषद्दःसुषु॥ निवृत्तमिति ॥ व्याख्यानादिति भावः । तर्हि 'कर्तरि कृत्’ इति कर्तरि स्यादित्यत आह । तयोरेवेति ॥ इह दुरिति कृच्छाथै एवान्वेति अकृच्छार्थे तु ईषदिति सु इति चान्वेति । योग्यताबलात् । तदेतदाह । कृच्छे, दुष्कर इत्यादिना ॥ भवतेति ॥ “न लोक' इति षष्ठीनिषेधात् कर्तरि तृतीया । कृच्छेत्यादि किम् । ईषत्कार्यम् । अल्पमित्यर्थः । निमीति ॥ निपूर्वो मिअ मीनातिः लीड् एषामित्यर्थ । “मीनातिमिनोतिदीडा ल्यपि च' *विभाषा लीयते इति प्राप्तमात्त्व खलचोनिषिद्यते । खलि उदाहरति । ईषन्निमय इत्यादि ॥ 'एरच इत्यचि उदाहरति । निमय इत्यादि । उपसर्गात्खल्घञ्जओोः ॥ लभेर्नुमिति ॥ लभेश्व ' इत्यतः 'इदितो नुम्’ इत्यतश्च तदनुवृत्तेरिति भावः । न सुदुभ्यम् ॥ केवला भ्यामित्येतद्याचष्ट । उपसर्गान्तरेति ॥ सुप्रलम्भः । अतिदुर्लम्भ इति ॥ अत्र सुदुरो रुपसर्गान्तरसहितत्वात् पूर्वसूत्रप्राप्तस्य निषेधः । कथं तहति ॥ सुदुरोरुपसर्गान्तरसहितत्वेन