दुर्लभम् । “केवलाभ्याम्' किम् । सुप्रलभ्भः । अतिदुर्लम्भः । कथं तर्हि अति सुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ।
३३०८ । कर्तृकर्मणोश्च भूकृओोः । (३-३- १२७)
कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञ्जोः खल्स्यात् । “यथासंख्यं नेष्यते' । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । ईषदाद्यस्तु ततः प्राक् । कर्तृकर्मणोश्व्यर्थयोरिति वाच्यम्’ (वा २२४१) । खित्वान्मुम् । अनाढ्येन दुःखेन भूयते दुराढ्यंभवम् । ईषदाढ्यंभवम् । स्वाढ्यंभवम् । ईषदाढ्यंकरः । टुराढयकरः । खाढ्यंकरः । “च्व्यर्थयोः किम् । आढ्येन सुभूयते ।
३३०९ । आतो युच् । (३-३-१२८)
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पान । “भाषाया शास युधिदृशिधृषिमृषिभ्यो युज्वाच्यः’ (वा २२४३) । दुःशासन । दुर्योधन इत्यादि
{Rule}} नुमो निषेधादिति भावः । समाधत्ते । यदेति ॥ “स्वती पूजायाम् ।' यदा पूजार्थकाविमौ कर्मप्रवचनीयौ तदा उपसर्गत्वाभावात् न सुदुरोरुपसर्गसहितत्वम् । अतो निषेधो भविष्यतीति भावः । सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् । कर्तृ कर्मणोश्च ॥ कर्तृकर्मणेोरिति सप्तमी । उपपदयोरिति लभ्यते, व्याख्यानात् । चकारादीष दृस्सुष्विति समुच्चीयते । भूकृओरिति पञ्चम्यर्थे षष्ठी । तदाह । कर्तृकर्मणोरीषदादिषु चोपपदेष्विति । अत्र कट्टकमणारन्यतररास्मन् ईषदुस्सूनामन्यतमे च इत्युभयस्मिन् समुचिते उपपद इत्यर्थो विवक्षितः । न तु प्रलेयकमुपपदत्वम्, व्याख्यानात् । भाष्ये तथैवोदाहरणाञ्च । नेष्यत इति । भूट्टकृञ्जाः कतृकमणारलयस्य च न यथासङ्खयामलयथः । ननु कतृकमणारन्यतरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसन्निपाते कथं पौर्वापर्यं मित्यत आह । कर्तृकर्मणी चेत्यादि । भाष्ये तथैवोदाहरणादिति भाव । च्व्यर्थयो रिति । अभूततद्भाव इत्यर्थः । भूयत इति । भावे लट्। दुराढ्यंभवमिति ॥ भावे खलु । अत्रढयस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः । दुरस्तु ततः प्राक् । दुराढ्यकर इति ॥ अनाढ्यः आढ्यः दुःखेन क्रियते इत्यर्थः । अत्र आढ्यः कर्म उपपदम् । ईषदाढ्यभव मित्याद्यप्युदाहार्यम् । अत्र ईषदुस्सूना व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम्। आातो युच् ॥ कर्तृकर्मणोरिति नानुवर्तते, अखरितत्वात् । ईषदादिषु कृच्छ्राकृच्छार्थेघूप देषु आदन्ताद्धातोर्युच स्यादित्यर्थः । तयोरेवेति भावे कर्मणि च । खलोऽपवाद इति ॥ वाऽसरूपविधिस्तु न भवति, ‘क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्न' इत्युक्तः। दुष्पान इति ॥ इदुपध' इति षः । भाषायामिति ॥ ‘छन्दसि गत्यर्थेभ्यः’ “अन्येभ्योऽपि दृश्यन्ते