घान्ता निपात्यन्ते । “हलश्च' (सू ३३००) इति वक्ष्यमाणस्य घञ्जो ऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देश : । संचरन्त्यनेन संचरो मार्ग । वहन्त्यनेन वहः स्कन्धः । व्रजः, व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनन निगमश्छन्द । चात्कष: । निकषः ।
३२९९ । अवे तृस्रोर्घञ् । (३-३-१२०)
अवतारः कूपादेः । अवस्तारो जवनिका ।
३३०० । हलश्च । (३-३-१२१)
हलन्ताद्धञ्स्यात् । घापवादः । (रमन्ते योगिनोऽस्मिन्निति रामः) अप मृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्ग: समूहनी ।
३३०१ । अध्यायन्यायोद्यावसंहाराश्च । (३-३-१२२)
अधीयतेऽस्मिन्नध्यायः । नियन्त्युद्यवन्ति संहरन्त्यनेनेति विग्रह । अवहाराधारावायानामुपसंख्यानम्' (वा २२३६) ।
३३०२ । उदुङ्कोऽनुदुके । (३-३-१२३)
उत्पूर्वादञ्चतेर्घञ्स्यात् न तूदके । घृतमुदच्यत उद्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । “ अनुदके' किम् । उद्कोदश्चनः ।
३३०३ । जालमानायः । (३-३-१२४)
आनीयन्ते मत्स्याद्योऽनेनेत्यानाय: । “जालम्’ इति किम् । आनयः ।
३३०४ । खनो घ च । (३-३-१२५)
चाद्धज्य । आखनः-आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् ।
हलश्चेति वक्ष्यमाणस्येति ॥ चात्कष इति ॥ व्याख्यानादिति भावः । अवे तृस्रोर्घञ् ॥ अवेत्युपसर्गे उपपदे तृ स्तृ आभ्या घञ् स्यात् पुंसि सज्ञाया प्रायेणेत्यर्थः । घापवाद् इति ॥ “पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः । हलश्च ॥ स्पष्टम् । अध्याय ॥ अधिपूर्वक इङ् निपूर्वक इण् उत्पूर्वक. युधातु. सपूर्वको हृङ एते घअन्ता निपात्यन्ते । “पुसि सज्ञायाम्' इति घापवादः । अवहारेति ॥ अवहारः, आधारः, आवायः, एषा घञ्जन्ताना निपातनख्योपसङ्खयानमित्यर्थः । उदङ्कोऽनुदके ॥ घस्यापवादः । घृतोदकमिति ॥ “चजोः कु घिण्यतोः' इति कुत्वम् । जालमानाय ॥ जालं वाच्यञ्चेत् आनाय इति घजन्तमित्यर्थः । खनो घ च ॥ घ इति लुप्तप्रथमाकम् । खनो घञ् स्यातू