पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७४

विकिस्रोतः तः
← अध्यायः ७३ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७४
वेदव्यासः
अध्यायः ७५ →

व्यास उवाच-
चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं।
त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं१।
पिता मे निहतः पित्रा तव यस्माद्गणाधिप।
तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं२।
ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं।
तव तातेन दुष्टेन सुराणामहितं पुरा३।
कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि।
पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च४।
अवधीत्तं शरैकेन पितरं ते बलेन च।
पंकात्प्रतारितो मोहात्प्रेषितो यममंदिरं५।
त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह।
उक्तवंतं महाप्राज्ञं सुराणां च गणाधिपं६।
विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः।
ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्७।
यमदंडसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः।
कंकपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः८।
विचकर्त शरांश्चास्य लंबोदरः सुरार्चितः।
पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः९।
शरैरर्दितसर्वांगो मूर्च्छितस्त्वपतद्भुवि।
ततो भद्रश्च सौभद्रो भीषणो निर्जरांतकः१०।
स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम्।
युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्११।
लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः।
भद्रकस्य तु शीर्षे चाहनत्परशुना तदा१२।
सौभद्रस्योत्तमांगं च असिनाग्रे निपातितम्।
भीषणस्य कुठारेण खड्गेन निर्जरांतकम्१३।
पातयित्वा च हेरम्बो महागिरिसमांस्तदा।
चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः१४।
ततः संज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः।
समारुह्य रथं स्वं च जघान सुरसत्तमम्१५।
विशिखैरर्धचंद्रैश्च क्षुरप्रैर्भल्लकैस्तथा।
तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः१६।
चतुर्भिः सैंधवांश्चैव शरैकेन च सारथिम्।
शरैः संपातयामास धरण्यां गणनायकान्१७।
लाघवात्तु रथं चान्यं गत्वा त्रिपुरनंदनः।
विशिखैर्वज्रसंकाशैः संबिभेद गणाधिपम्१८।
रुधिरेणावसिक्तांगो रुषा घोर यमप्रभः।
ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनांतरे१९।
चतुर्भिर्नाभिदेशे च पंचभिर्मुष्टिमस्तके।
संबिभेद महाक्रोधो बलिनं शंभुनंदनः२०।
शरैरर्दितसर्वांगः स दैत्यो रणमूर्धनि।
कश्मलं परमं गत्वा संपपात रथोपरि२१।
ततः सूतेन धीरेण अपनीतो रणाजिरात्।
विमुखं नाहनच्छूरो विनायकः सुरार्चितः२२।
चिरात्संज्ञां समालभ्य यंतारं चाब्रवीद्वचः।
गच्छ सूत रणे भीरुं विनायकं हरात्मजम्२३।
ततो यंताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्।
हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे२४।
तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत।
एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्२५।
एतस्मिन्नंतरे राज्ञा प्रेरितः कविसत्तमः।
औषधादिप्रयोगेण गजः संज्ञामबोधयत्२६।
अकारयच्छतगुण प्राणं च जयमादिशत्।
प्राग्जलं मंत्रितं दत्वा रुरोधास्याङ्गकव्रणान्२७।
स गजो दशनैरेव स्फोटयामास वै गिरिम्।
एवं शतसहस्राणि सैन्यानि सैन्यपालकान्२८।
पातयामास समितौ गजः परमदुर्जयः।
स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः२९।
हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्।
शरैस्तस्य तदा देवा यमदंडसमप्रभैः३०।
निपतंति महावीर्या रुधिरौघपरिप्लुताः।
यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः३१।
तत्र तत्र चकाराशु भीषणं संचितं शरैः।
गजेन पातिताः केचिद्गजारोहेण चापरे३२।
वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः।
एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्३३।
सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः।
तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः३४।
क्षिप्रं तांस्तु गजो दंतैस्त्रैपुरोऽपातयच्छरैः।
न गता ये धरण्यां च देवा जर्जरविग्रहाः३५।
शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः।
देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्३६।
स गजं ताडयामास वज्रानलसमैः शरैः।
स गजो वेगसंरुद्धः शरेण च समुत्थितः३७।
अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्।
उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्३८।
शोणितैर्लिप्तसर्वांगौ वीरमुख्यौ सुरासुरौ।
अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः३९।
आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्।
अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्४०।
सशब्दं तुमुलं युद्धं सर्वलोकभयंकरम्।
दशनैर्दशनैरेव शरैरेव शरोत्तमैः४१।
तद्घोरमभवद्युद्धं देवदानवसंगरे।
आखुको भेदयांचक्रे महानांगं महाबलम्४२।
पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः।
दैत्यस्य दशनद्वारे हृदिस्कंधेथ लाघवात्४३।
सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्।
शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्४४।
अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे।
यावत्तु सेनयोर्नैव जययुद्धं समापयेत्४५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे त्रैपुरिविमर्दोनाम चतुस्सप्ततितमोऽध्यायः७४।