पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७४ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७५
वेदव्यासः
अध्यायः ७६ →

व्यास उवाच-
श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः
दुद्रुवुर्दैत्यसंघांस्तान्सर्वे सर्वान्समंततः१
आजगाम महाबाहुः कुंभो नाम महासुरः
नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्२
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्
ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः३
चक्रबंधं महाबंधं पुरोवध्यनिबंधनम्
प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्४
तेन कृत्वा महायुद्धमवसाने धनेश्वरः
पातयामास तं स्फोटं तस्य कुंभस्य चोरसि५
भग्नदंष्ट्रस्ततः कुंभो निपपात महीतले
स्यंदनस्थो महावीर्यो जंभो हरिहयं तदा६
जघानशरसंघैश्च तथैवैरावणं भृशम्
वासवो भिदुरेणैव संबिभेदासुरोत्तमम्७
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः
तथारण्यं सुघोरं च अघोरं घोरमेव च८
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे
सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्९
सौरभं शरसंघैश्च जयंतो वशमानयत्
शक्तिहस्तं च संह्रादं यमदंडं नरांतकम्१०
हत्वा च पातयामास स भस्मीकृतविग्रहः
कालश्च खड्गपातेन पातयामास बाभ्रवम्११
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे
अग्निना दह्यमानाश्च सप्तैते च महाबलाः१२
भद्रबाहुर्महाबाहुः सुगंधो गंध एव च
भौरिको वल्लिको भीम एते सेनाग्रगामिनः१३
रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः
पाशबद्धा महावीर्या वरुणस्य महात्मनः१४
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः
शूरस्य रश्मिजालेन निहताः पञ्चदानवाः१५
तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः
क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः१६
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना
नैर्ऋतो गदया भीमं पातयामास भूतले१७
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः
निपेतुः संयुगे भीताः संमुखा रणपंडिताः१८
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्
मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः१९
निपातिता रणे दैत्याः शतशो बलशालिनः
कुबेरस्य गदापातैर्निपतंति सहस्रशः२०
शक्रस्य भिदुरेणैव भेदिता दैत्यपुंगवाः
असंख्याताः पतंत्युर्व्यां स्कंदशक्त्या तथा हताः२१
गणेशपर्शुपातेन पतंति मुख्यमुख्यकाः
वैकुंठकरमुक्तेन चक्रेण तीव्रकर्मणा२२
दैत्यानां प्रवराणां च शिरांसि निपतंति कौ
शमनो यमदंडेन कोटिकोटिसहस्रशः२३
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्
मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्२४
पातेन तक्षकादीनां सुधांशोः शिशिरेण च
अश्वारोही खरोमन्योहनिपाशस्तथा गजान्२५
परिघेण गजं कुंभे दैत्यानां नाशयत्ततः
एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्२६
एवं सिद्धैश्च गंधर्वैरप्सरोभिर्महाबलैः
अन्याभिर्देवताभिश्च समातृगणनायकैः२७
निपातिता महोघोरा ये ते प्रलयदानवाः
शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः२८
यष्टिपरिघकुंतैश्च पातयंत्यसुरान्सुराः
एवं संक्षीयमाणेषु दैत्यराट्समपद्यत२९
आदित्यरथसंकाशं रथरत्नविभूषितम्
शातकुंभमयं दिव्यं घंटाचामरभूषितम्३०
पताकाध्वजसंपूर्णं रम्यं शक्ररथोपमम्
समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः३१
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः
ससैन्यानि गजान्वीरो रथांश्च सह सैंधवान्३२
पातयामास भूमौ च शतशोथ सहस्रशः
एवं चरन्स वृंदेषु निखिलेषु दिवौकसाम्३३
पातयामास दैत्येंद्रः शरौघान्मृत्युसन्निभान्
क्रमेण समरे चाथ देवसैन्यान्यमंथत३४
यथा पुष्करिणीवृंदे गजः कंजवनं शितैः
शरपातैरथो वेगात्सिंहनादैः पुनः पुनः३५
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च
दशभिश्च सुतीक्ष्णाग्रैर्जयंतं स जघान ह३६
रेमंतं पंचभिर्बाणैः शक्रं पंचदशेन तु
चित्ररथं विंशतिभिःपंचविंशतिभिर्गुहम्३७
हेरंबं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्
तथैव कालं मृत्युं च पाणिना द्विगुणेन च३८
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः
षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्३९
वसून्सर्वांश्च सशरैः सिद्धगंधर्वपन्नगान्
दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ४०
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्
आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः४१
महेशशूलसंकाशैः शरैर्मर्मविभेदिभिः
ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः४२
तस्यैव संमुखे स्थातुं न शेकुः प्रवरास्सुराः
ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः४३
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः
एतस्मिन्नंतरे विष्णुः प्राह जिष्णुं खगेश्वरम्४४
अधुना गच्छ दैत्यस्य संमुखं रणमूर्धनि
नाशाय सततस्तूर्णं गतस्तस्यांतिकं जवात्४५
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्
रथस्य संमुखे दैत्य उवाच विष्णुमव्ययम्४६
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्
ततो विष्णुरुवाचेदं गर्जंतं दैत्यपुंगवम्४७
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव
ततः शरशतैरेव जघान विष्णुमव्ययम्४८
असंभ्रांतः स चिच्छेद यमदंडनिभान्शरान्
पुनः शरसहस्राणि प्रेरयामास तं रणे४९
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः
प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः५०
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः
लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः५१
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुंगवः
बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे५२
जघान माधवं वेगाद्धिरण्याक्षो महाबलः
तं च संचूर्णयामास गदया लीलया हरिः५३
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि
तथैव लाघवाच्चूर्णं हरिणा दानवारिणा५४
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः
शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः५५
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा
तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः५६
शरैर्दीप्तैर्महाघोरैरसुराणां भयंकरैः
विव्याध सर्वगात्रेषु शंभुशूलोपमैश्शरैः५७
दानवाधिपतिः संख्ये ह्यव्ययो हरिरीश्वरः
स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्५८
कालजिह्वोपमां घोरामष्टघंटासमन्विताम्
हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्५९
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्
ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः६०
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्
तेषां शिरांसि संच्छिद्य माधवं पुनरागमत्६१
स दैत्यं शक्तिपातेन पातयामास वै रणे
चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम्६२
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्
ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्६३
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्
जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्६४
ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः
प्रचिच्छेद शरैरेव शूलेनैवमताडयत्६५
स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः
विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः६६
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः
वरूथं सध्वजं केतुं रथं चैवातपत्रकम्६७
यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः
पातिते च रथे दैत्यः संप्लुत्याथ रथं परम्६८
आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली
ततो युद्धं महाघोरमभवल्लोमहर्षणम्६९
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्
अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्७०
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्
ततो दैत्यो महासत्वो ववृधे वामनो यथा७१
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्
भूमंडलं समुद्धृत्य विवेश च रसातलम्७२
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः
ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्७३
दधार रूपं वाराहं दैत्यराजजिघांसया
धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्७४
तत्र गत्वा रसामूले रसातलगतां महीम्
दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुंधराम्७५
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः
समाजगाम दैत्येंद्रो धृष्टं वाग्भिस्तुदन्ननु७६
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा
जलोपरि दधारेमां धरां भूधर एव च७७
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्
ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः७८
क्रोधेन महताविष्टो जघान गदया हरिम्
मायया सूकरो विष्णुस्तां गदां समवंचयत्७९
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्
ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः८०
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः
एवं युद्धं महाघोरं सव्यासव्यं गतागतम्८१
परिभ्रमणविक्षेपं कृतानुकरणं तथा
ततो ब्रह्मादयो देवा युद्धं पश्यंति खे स्थिताः८२
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्
ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्८३
मा क्रीड बालवद्देव जह्यमुं देवकंटकम्
ततो विष्णुर्महातेजा मायावाराहरूपधृत्८४
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्
सहस्रसूर्यसंकाशं सहस्रारं महाप्रभम्८५
दैत्यांतकरणं रौद्रं प्रलयाग्निसमप्रभम्
तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्८६
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्
दैत्यांतकरणं रौद्रं चक्रं चागमदच्युतम्८७
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः
दृष्ट्वा च विजयं विष्णोः स्तुवंति स्म समागताः८८
देवा ऊचुः-
नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः८९
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः९०
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने९१
म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय९२
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार९३
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव९४
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले९५
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्९६
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्९७
ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्९८
व्यास उवाच-
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्९९
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन१००
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्
अतः परं महाज्ञानं न भूतं न भविष्यति१०२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः७५