पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८४

विकिस्रोतः तः
← अध्यायः १८३ पद्मपुराणम्
अध्यायः १८४
वेदव्यासः
अध्यायः १८५ →

[१]देव्युवाच।
सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो ।
धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया १।
निरूपितमिदं पुण्यं नवमाध्यायवैभवम् ।
अनेकविस्मयस्वादु कथानकमयं मधु २।
शृण्वंत्या मम देवेश न तृप्तिर्जातु जायते ।
अकुंठाश्रवणोत्कंठा वर्द्धते वृषभध्वज ३।
आसीन्ममहिमांभोधे गीतानां श्रुतिजीवितम् ।
तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ४।
तमुद्दिश्य महाध्यायमभिधेहि कथानकम् ।
शिव उवाच।
शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ५।
सीमामिव प्रभावानां पावनीं परमां कथाम् ।
आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ६।
प्रशांतचेता निर्मुक्त हिंसाकार्कश्यसाहसः ।
निवृत्तिनिरतो नित्यं जितेंद्रियतया तथा ७।
धीरधीरिति विख्यातो नंदीव मयि भक्तिमान् ।
निस्तीर्णनिगमांभोधिः सर्वशास्त्रार्थकोविदः ८।
तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः ।
अंतरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ९।
करावलंबनं तस्य धावन्प्रीत्या ददाम्यहम् ।
कदाचन चमत्कारकारकं विमना मुनिः १०।
आचांतः किंच नासाग्रपरमानंदमेदुराम् ।
दृशमासाद्य निद्राणकरणोयमिवास्थितः ११।
उपाधास्य विशालाक्षि विशालां द्वारदेहलीम् ।
अशेत निशि निःशंकं तावल्लंबेक्षणः क्षणम् १२।
मामपृच्छद्भृंगिरिटिः प्रणम्यपादपंकजम् ।
अनेन विधिना केन विहितं तव दर्शनम् १३।
तपस्तप्तं हुतं जप्तं किमनेन महात्मना ।
दत्ते प्रतिपदं देवो यस्य हस्तावलंबनम् १४।
अयं न लभते गंतुं कस्मादस्मात्पुराद्बहिः ।
यदृच्छया यदा काशी सीमामुल्लंघ्य गच्छति १५।
न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः ।
अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् १६।
अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय ।
भृंगिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् १७।
कदाचिदासं कैलासं पार्श्वे पुन्नागकानने[२]
रणत्खेचरसुश्रोणि पूर्णस्तबककानने १८।
कलकंठकुलालाप कल्लोलितदिगंतरे ।
गरुत्मदादिदात्यूह समूहस्वरसंकुले १९।
भ्रमद्दारुघटीयंत्र प्रोल्लसद्बिंदुदंतुरे ।
प्रबुद्धसारणिप्रांत कदलीकंदलालसे २०।
कस्तूरीहरिणोपेते किंनरस्वरमोहिते ।
रोमंथमंथरापांगैर्मृगैः क्वापि निषेविते २१।
हंसैः कीरेषु पांडित्यं कुर्वाणैः संकुले शुकैः ।
निर्हृदिक्वणिनीरंध्र समीरणविलोडिते २२।
माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते ।
उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे २३।
प्रोत्फुल्लबकुलामोदमदमंथरषट्पदे ।
सोमादुद्भूतपीयूषक्षालितक्षितिमंडले २४।
अध्यास्य वेदिकामेकामहं क्षणमवस्थितः ।
उद्दंडशाखिसंघट्टस्फुटन्मंथामुखोत्करैः २५।
प्रकंपिता चलच्छायो ववौ चंडसमीरणः ।
पश्चादभून्महाघोषो निर्घोषित दरीतटः २६।
अवातरत्ततः कश्चित्पक्षी गगनगह्वरात् ।
शारदानरिदच्छायः कज्जलानामिवोच्चयः २७।
तमसामिव संघातः पक्षच्छेदीव पर्वतः ।
अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः२८।
आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात् ।
अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् २९।
जयदेव चिदानंद सुधासिंधो जगत्पते ।
सदा सद्भावना संग कल्लोलानंतविग्रह ३०।
अद्वैतवासना मत्या मलत्रयविवर्जित ।
जितेंद्रिय पराधीन समाधिप्राप्यविग्रह ३१।
निरुपाधिविनिर्मुक्त निराकार निरामय ।
निःसीम निरहंकार निरावरणनिर्गुण ३२।
शरणागतसंत्राण प्रवीण चरणांबुज ।
भीममाल महाव्याल ज्वालादग्धमनोभव ३३।
कुठारभिन्नदैत्येंद्र गंडूषित महाविभो ।
त्रिपुरप्रमदाभाल सिंदूरोद्धूलिमार्जन ३४।
कात्यायनीकुचांभोज वरकुंकुमचर्चित ।
नमः प्रमाणदूराय नमः प्रमतिरूपिणे ३५।
नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे ।
वंदे तव पदांभोजं योगिप्रवरचुंबितम् ३६।
अपारभवपाथोऽधि पारावतरणाद्भुतम् ।
वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ३७।
सहस्रवदनस्यापि फणींद्रस्य न चातुरी ।
त्वद्वर्णने महादेव कोऽहंमल्पमतिः खगः ३८।
स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा ।
तमवोचमहं कोऽसि कुतस्त्योसि विहंगम ३९।
हंसेन सदृशः कायो वर्णः काकेन संनिभः ।
प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ४०।
इति पक्षी मया पृष्टः प्रश्रयानतकंधरः ।
जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ४१।
देवेश धूर्जटे विद्धि मां मरालं स्वयंभुवः ।
कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ४२।
तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते ।
मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि संकटम् ४३।
सौराष्ट्रनगरादारात्सरसि स्फुटदंबुजे ।
बालेंदुखंडधवलान्मृणालकवलानहम् ४४।
आदाय बलमाश्रित्य निरगां गगनं द्रुतम् ।
विहायसस्ततस्तस्मादकस्मादपतं भुवि ४५।
अथ मोहपरीतात्मा सर्वथा विकलेंद्रियः ।
वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ४६।
प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा ।
अहो किमेतदापन्नमद्य पातः कथं मम ४७।
कालिमा येन कायेस्मिन्पक्वकर्पूरपांडुरे ।
इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ४८।
तावदंबुरुहाद्वाणीमश्रौषमहमीदृशीम् ।
उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ४९।
अथोत्थाय समागत्य मया मध्ये सरोवरे ।
दृष्टराजीविनीरम्या राजीवैः पंचभिर्युता 6.184.५०।
कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च ।
अथ तत्र घनश्यामान्स्वर्णवर्णांबरावृतान् ५१।
चतुर्भुजान्गदाशंखचक्रपंकेरुहायुधान् ।
किरीटहारकेयूरकुंडलद्युतिचित्रितान् ५२।
अद्राक्षमंतरिक्षस्थान्पुरुषानयुतानि षट् ।
नत्वा प्रदक्षिणीकृत्य पंचपद्मां सरोजिनीम् ५३।
आत्मीयं पातमारभ्य पृष्टं तदखिलं मया ।
पद्मिन्युवाच।
कलहंस गतोऽसि त्वं मां विलंघ्य विहायसा ५४।
तेन पातकयोगेन पतितोऽसि महीतले ।
तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ५५।
भवंतं पतितं वीक्ष्य कृपापूर्णेन चेतसा ।
मध्यमेनामुनाब्जेन वदता जातसौरभम् ५६।
आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः ।
एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ५७।
सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः ।
अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ५८।
कदाचित्कामिनी काचिच्चंपकस्तबकस्तनी ।
चलापांगकालाकांततरंगित रसालिनी ५९।
नासा मुक्ताफलज्योत्स्ना चुंबितस्मित दीधितिः ।
वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ६०।
गायंत्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव ।
तां समागत्य ते सर्वे सममेव व्यलोकयन् ६१।
मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम् ।
मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ६२।
अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः ।
ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ६३।
तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना ।
ततो मातंगतामेत्य पथिपांथानघातयन् ६४।
वने विषोदकं पीत्वा ते ययुर्यममंदिरम् ।
खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ६५।
ततो मधुव्रता जाता वर्तंतेऽत्र सरोवरे ।
अद्य मे गंधमाघ्राय प्रापुस्ते वैष्णवं पदम् ६६।
शृणु पक्षींद्र वक्ष्यामि येन मय्यस्ति वैभवम् ।
एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ६७।
सरोजवदनानाम द्विजातेः कन्यकाऽभवम् ।
पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ६८।
कदाचित्सारिकामेकां पाठयंत्याविलंबितम् ।
सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ६९।
प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः ।
मुनीनामेव सदने कन्या काचित्पुपोष माम् ७०।
गीतानां दशमाध्यायं विभूतिरिति विश्रुतम् ।
प्रातः पठति विप्रोसावश्रौषं तमघापहम् ७१।
कालेन सारिकादेहमहं हित्वा विहंगम ।
दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ७२।
पद्मावतीति विख्याता पद्माया दयिता सुखी ।
कदाचन मया यांत्या विमानेन विहायसा ७३।
एतत्सरोवरं रम्यं विलोक्य विमलांबुजम् ।
अवतीर्य जलक्रीडायावदारभ्यते मया ७४।
दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता ।
तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ७५।
पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च ।
मुखेन पंचमांभोजमिति पंचांबुजास्म्यहम् ७६।
दृष्टा तेन मुनींद्रेण कोपज्वलित चक्षुषा ।
अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ७७।
इति शापं समुत्सृज्य स चैवांतर्दधे क्षणात् ।
विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ७८।
मद्विलंघनमात्रेण पतितोसि महीतले ।
अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ७९।
निशामय मया गीयमानमध्यायमुत्तमम् ।
यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ८०।
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा ।
तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ८१।
मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम् ।
इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ८२।
भृंगिरिटिरुवाच।
पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं ।
तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ८३।
इति भृंगिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम् ।
द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ८४।
सुतपा इति विख्यातो ब्रह्मचारी जितेंद्रियः ।
वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ८५।
गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः ।
शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ८६।
तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान् ।
पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ८७।
अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि ।
गीतानां दशमाध्यायं नलिन्या कथितं ततः ८८।
आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम् ।
सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ८९।
जन्माभ्यासवशादस्य शिशोरपि मुखांबुजात् ।
गीतानां दशमाध्यायः समुल्लसति सर्वदा ९०।
तदर्थपरिणामेन सर्वभूतेष्ववस्थितम् ।
शंखचक्रधरं देवमयं पश्यति सर्वदा ९१।
यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः ।
स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ९२।
तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा ।
इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ९३।
अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता ।
तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ९४।
न ददामि बहिर्गंतुमहमस्य पुरा कृतम् ।
दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ९५।
लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा ।
तेनास्य चलतो हस्तं ददामि पथि गच्छतः ९६।
दशमाध्यायमहिमा भृंगिरिटे महानयम् ।
इति भृंगिरिटेरग्रे कथितं यत्कथानकम् ९७।
तवेदमत्र कथितं सर्वपापप्रणाशनम् ।
नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ९८।
अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ९९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये चतुरशीत्यधिकशततमोध्यायः १८४।


संदर्भाः[सम्पाद्यताम्]

भगवद्गीतायाः दशमोध्यायः

  1. हिन्दी रूपान्तरणम् (यूट्यूब), हिन्दीरूपान्तरणम् (यूट्यूब)
  2. पुन्नागोपरि टिप्पणी