शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ९

विकिस्रोतः तः

४.५.९ व्यूढद्वादशाहः

तद्यत्रैतद्द्वादशाहेन व्यूढच्छन्दसा यजते । तद्ग्रहान्व्यूहति व्यूहत उद्गाता च होता च छन्दांसि स एष प्रज्ञात एव पूर्वस्त्र्यहो भवति समूढच्छन्दास्तदैन्द्रवायवाग्रान्गृह्णाति - ४.५.९.१

अथ चतुर्थेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति प्राजापत्यं वा एतच्चतुर्थमहर्भवत्यात्मा वा आग्रयण आत्मा वै प्रजापतिस्तस्मादाग्रयणाग्रान्गृह्णाति - ४.५.९.२

तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिंकृत्य सादयत्यथैतत्प्रज्ञातमेव पञ्चममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति - ४.५.९.३

अथ षष्ठेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तच्छुक्राग्रान् गृह्णात्यैन्द्रं वा एतत्षष्ठमहर्भवत्येष वै शुक्रो य एष तपत्येष उ एवेन्द्रस्तस्माच्छुक्राग्रान्गृह्णाति - ४.५.९.४


तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं सादयति - ४.५.९.५

अथ सप्तमेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तच्छुक्राग्रान् गृह्णाति बार्हतं वा एतत्सप्तममहर्भवत्येष वै शुक्रो य एष तपत्येष उ एव बृहंस्तस्माच्छुक्राग्रान् गृह्णाति - ४.५.९.६

तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदेनंसादयत्यथैतत्प्रज्ञातमेवाष्टममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति - ४.५.९.७

अथ नवमेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति जागतं वा एतन्नवममहर्भवत्यात्मा वा आग्रयणः सर्वं वा इदमात्मा जगत्तस्मादाग्रयणाग्रान् गृह्णाति - ४.५.९.८


तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिंकृत्य सादयति - ४.५.९.९

तदाहुः । न व्यूहेद्ग्रहान्प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत् - ४.५.९.१०


तदु व्यूहेदेव । अङ्गानि वै ग्रहाः कामं वा इमान्यङ्गानि व्यत्यासं शेते तस्मादु व्यूहेदेव - ४.५.९.११


तदु नैव व्यूहेत् । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत् - ४.५.९.१२


किं नु तत्राध्वर्योः । यदुद्गाता च होता च छन्दांसि व्यूहत एतद्वा अध्वर्युर्व्यूहति ग्रहान् यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णाति शुक्राग्रान्माध्यन्दिने सवन आग्रयणाग्रांस्तृतीयसवने - ४.५.९.१३