पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९१

विकिस्रोतः तः
← अध्यायः ०९० पद्मपुराणम्
अध्यायः ०९१
वेदव्यासः
अध्यायः ०९२ →

नारद उवाच-।
देवशर्मा महाप्राज्ञः समं सुमनसा तया ।
तीर्थे कनखले पुण्ये गंगायामतिविश्रुते १।
वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ ।
पूजयामास विधिवन्मधुसूदनमच्युतम् २।
यमैः सनियमैर्युक्तः शक्त्या किंचिद्ददौ ततः ।
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः ३।
कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि ।
तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम् ४।
विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम् ।
अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान् ५।
सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा ।
पतिं शुश्रूषते नित्यं स्नात्वा संपूज्य केशवम् ६।
तौ दंपती ततो यातौ स्वगेहं साधुहर्षितम् ।
कृतकृत्यावथात्मानौ मन्यमानावसंशयम् ७।
तेन पुण्यप्रभावेण कालेन कियता किल ।
बभूवुरमितास्तस्य धनधान्यानि संपदः ८।
तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः ।
धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः ९।
बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः ।
विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः १०।
समग्रगुणसंपन्नाः संप्रतिष्ठंति कीर्तयः ११।
तौ दंपती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण ।
स्थानं परं परममीयतुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादात् १२।
यथैव माधवः साक्षाद्विद्यालक्ष्मी धवः स्मृतः ।
तथैव माधवो मासो मधुसूदनवल्लभः १३।
इदं माधवमाहात्म्यं किंचित्संक्षेपतोऽनघ ।
मया ते कथितं वीर यत्पुरा च पितुः श्रुतम् १४।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये एकनवतितमोऽध्यायः ९१।