पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००३
← अध्यायः ००२ | पद्मपुराणम्/खण्डः ५ (पातालखण्डः) अध्यायः ००३ [[लेखकः :|]] |
अध्यायः ००४ → |
शेष उवाच।
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम् ।
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः १।
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति ।
प्रेषयामास सचिवं नगरोत्सवसिद्धये २।
भरत उवाच।
कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम् ।
मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम् ३।
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः ।
प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः ४।
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः ।
मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः ५।
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम् ।
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया ६।
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान् ।
विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः ७।
वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाः ।
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ८।
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः ।
गजोपरि समारूढा मुक्ताभिर्विकिरंतु च ९।
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः ।
सुवासिन्यो महाराजं रामं नीराजयंतु ताः १०।
कौसल्यापुत्रसंयोगसंदेश विधुरा सती ।
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ११।
इत्येवमादिरचनाः पुरशोभाविधायिकाः ।
करोतु जनता हृष्टा रामस्यागमनं प्रति १२।
शेष उवाच।
इति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमः ।
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् १३।
गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधः ।
ख्यापयामास लोकानां रामागममहोत्सवम् १४।
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः ।
पूर्वं तदीय विरहत्यक्तभोगसुखादयः १५।
ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयः ।
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् १६।
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः ।
संग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् १७।
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः ।
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् १८।
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः ।
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् १९।
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः ।
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् २०।
इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताः ।
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् २१।
शेष उवाच।
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः ।
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् २२।
प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः ।
स्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम् २३।
पुष्पकादवरुह्याशु नरयानमथारुहत् ।
सीतया सहितो रामः परिवारसमावृतः २४।
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम् ।
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् २५।
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम् ।
शोभमानः स्तूयमानः सूतमागधबंदिभिः २६।
जय राघवरामेति जय सूर्यकुलांगद ।
जय दाशरथे देव जयताल्लोकनायकः २७।
इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम् ।
रामदर्शनसंजात पुलकोद्भेद शोभिनाम् २८।
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम् ।
चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम् २९।
तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताः ।
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ३०।
पौरांगना ऊचुः।
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम् ।
स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः ३१।
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम् ।
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो ३२।
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम् ।
बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम् ३३।
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य ।
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः ३४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ३।