निगारयति । आशयति । भोजयति । चलयति । कम्पयति । 'अदे प्रतिषेधः' (वा ९५९) । आदयते देवदत्तेन । 'गतिबुद्धि-' (सू ५४०) इति कर्मत्वम् 'आदिखाद्योर्न' (वा ११०९) इति प्रतिषिद्धम् । 'निगरणचलन-' (सू २७५३) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं वटुना ।
२७५४ । अणावकर्मकाच्चित्तवत्कर्तृकात् । (१-३-८८)
ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ।
२७५५ । न पादभ्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । (१-३-८९)
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृकाकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते ।
इति व्याख्येयमिति प्रौढमनोरमाया स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनासम्भवादाचामिरादरे लाक्षणिकः । अतो निगरणार्थकत्वाभावान्न परस्मैपदम् । नचैव सति 'प्रत्यवसानार्थकत्वाभावाच्चक्षुषो' 'गतिबुद्धि' इति कर्मत्वन्न स्यादिति शङ्क्यम् । न ह्याचामिरत्र केवले आदरे वर्तते । किन्तु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुध्द्यर्थकत्वादाचामे. चक्षुषोः कर्मत्वन्निर्बाधमित्यादि शब्देन्दुशेखरे प्रपञ्चितम् । अदेः प्रतिषेधः इति ॥ अदेर्ण्यन्तात् निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः । आदयते दवदत्तेनेत्यत्र अदेः प्रत्यवसानार्थत्वात् प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वमाशङ्क्य आह । गतिबुद्धीति ॥ नन्वादयत्यन्न वटुनेति कथम् । निगरणार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह । निगरणचलनेति सूत्रेण प्राप्तस्यैवायन्निषेधः इति ॥ नतु शेषात्कर्तरि इति प्राप्तस्येत्येवकारार्थ । 'अनन्तरस्य' इति न्यायादिति भावः । अणावकर्मकात् ॥ ण्यन्तादिति शेषपूरणम् । णेरित्यनुवृत्तेरिति भावः । अणौ यो धातुरकर्मकः चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहय शुष्यन्ति तान् शोषयते । अकर्मकात्किम् । कटङ्करोति । त प्रयुङ्क्ते । कटङ्कारयते । न पादभ्याङ्यम् ॥ पा दमि आङ्यम् आङ्यस परिमुह रुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्द्यत्वात् प्राप्तिमुपपादयति । पिबतिर्निगरणार्थः इति ॥ ततश्च 'निगरणचलनार्थेभ्यः' इति प्राप्तिरिति भावः । इतरे इति ॥ दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थ. । ततश्च 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः । नृतिरिति ॥ नृतिश्चलनार्थक. । अणा चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयेनेति ॥ 'अणावकर्मकात्' इति 'निगरणचलनार्थेभ्यश्च' इति च सूतद्वयेनेत्यर्थः । पाययते इति ॥ 'शाच्छासाह्वाव्यावेषां युक्' इति पुको-