दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । 'धेट उपसङ्ख्यानम्' (वा ९६२) । 'धापयेते शिशुमेकं समीची' । अकर्त्रभिप्राये 'शेषात्–' (सू २१५९) इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । 'दमयन्ती कमनीयतामदम्' । भिक्षां वासयति । 'वा क्यष:' (२६६९) लोहितायति-लोहितायते । 'द्युद्भ्यो लुङि' (सू २३४५) । अद्युतत्-अद्योतिष्ट । 'वृद्भ्यः स्यसनोः' (२३४७) वर्त्स्यति । वर्तिष्यते । विवृत्सति । विवर्तिषते । 'लुटि च क्लृपः' (सू २३५१) । कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्स्यति । कल्पिष्यते-कल्प्स्यते । चिक्लृप्सति-चिकल्पिषते-चिक्लृप्सते ।
इति तिङन्तपरस्मैपदप्रकरणम् ।
ऽपवादे युक् । दमयते इति ॥ 'जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वाध्द्रस्वः । ननु दिवादौ दमिस्सकर्मक इत्युक्तम् । अतःकथमिह 'अणावकर्मकात्' इति प्राप्तिरिति चेत् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि । अतो दमिस्सकर्मक इत्यस्य न विरोधः । आयामयते इति ॥ 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति ॥ 'वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम् । नतु 'वस आच्छादने' इत्यादादिकस्यापि । तस्य सकर्मकत्वादेवाप्राप्तेः । लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च । धेट उपसङ्ख्यानमिति ॥ परस्मैपदनिषेधस्येति शेष. । धापयेते शिशुमिति मन्त्रः । ननु 'वत्सान् पाययति पयः' । 'दमयन्ती कमनीयतामदम्' । भिक्षा वासयतीति च कथम् । 'न पादम्याङ्यस’ इति 'धेट' इति च परस्मैपदस्य निषेधादित्यत आह । अकर्त्रभिप्राये इति ॥ 'अनन्तरस्य' इति न्यायेन 'निगरणचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमाङ्यस' इति 'धेट उपसङ्ख्यानम्' इति च निषेध इति भावः । 'वा क्यष' इत्यादि प्राग्व्याख्यातमिति सूत्रक्रमेण पुनरुपात्तम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां पदव्यवस्था समाप्ता ।