भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुर्थ्योश्च तुल्योऽर्थः । तत्र तृतीयकक्ष्यायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तृत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च ।
इति ॥ क्रिया तु गम्य प्रेषणांश विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः । दर्शयन्ति भवं भक्ताः इति ॥ चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः । तदाह । पश्यन्तीत्यर्थः इति ॥ चाक्षुषज्ञानविषयङ्कुर्वन्तीत्यर्थ । पुनरिति ॥ चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भव भक्ता इत्युक्तोदाहरणे णिजर्थस्य आपादनाशस्य अविवक्षाया प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः । अत्र ण्यन्तस्य प्रेरणारहितेऽर्थे लक्षणा । गङ्गायाङ्घोष इत्यत्र टाप इव णिच. स्थितिः । चुरादेराकृतिगणत्वात् स्वार्थिको णिजित्यन्ये । इहेति ॥ अवस्था पदविशेषात्मकावयवसन्निवेशविशेषः । प्रथमा च द्वितीया च प्रथमद्वितीये । तयोरवस्थयोरिति विग्रह । 'सर्वनाम्नो वृत्तिमात्रे' इति प्रथमाशब्दस्य पुवत्त्वम् । पश्यन्ति भव भक्ता इति प्रथमावस्था । पदविशेषसन्दर्भ इति यावत् । अवस्थैव कक्ष्येति व्यवहरिष्यते मूले । कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा । रामायणे 'आ पञ्चमायाः कक्ष्यायाः नैनङ्कश्चिदवारयत्' इत्यादि । इदञ्च प्रथमवाक्यम् । प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणाशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असम्भवात् । प्रेरणाशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भव भक्ता इति तृतीयवाक्यस्य पश्यन्ति भव भक्ता इति प्रथमवाक्यसमानार्थकस्य उपपादिका । चाक्षुषज्ञानविषयत्वापादनानुकूलव्यापारार्थवृत्तेर्दृशेर्हेतुमण्णिचि चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारान्तरस्यापि प्रवेशापत्तेः । तृतीय वाक्यन्त्विदन्दर्शयन्तीति ण्यर्थस्याविवक्षाया दर्शयते भवः इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्तघटितस्योपपादकमिति स्पष्टमेव । तथाच प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भव भक्ताः, दर्शयन्ति भव भक्ताः, इत्यनयो तथा पश्यति भवः, दर्शयते भव., इति द्वितीयचतुर्थ्यो कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थ. । तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेर्ण्यन्तत्वाभावादेव तडो न प्रसक्तिरिति मत्वा आह । तत्र तृतीयकक्ष्यायान्न तङिति ॥ कुत इत्यत आह । क्रियासाम्येऽपीति ॥ दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायाः, पश्यन्ति भव भक्ताः, इति प्रथमकक्ष्यासमानार्थकतया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भव भक्ता इति तृतीयकक्ष्याया णौ कर्तृत्वाभावादित्यर्थः । एवञ्चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणञ्चेत्युक्ता भवति । अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य तु अध्द्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायान्न तडिति वक्ष्यते । चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह । चतुर्थ्यान्तु तङिति ॥ 'णेरणौ' इति प्रकृतसूत्रेणेति शेषः । तदेवोपपादयति । द्वितीयामादायेति ॥ पश्यति भव इति द्वितीयकक्ष्या-