सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

॥ अथ तिङन्तणिच्प्रकरणम् ॥

२५७५ । तत्प्रयोजको हेतुश्च । (१-४-५५)

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ।

२५७६ । हेतुमति च । (३-१-२६)

प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्स्यात् । भवन्तं प्रेरयति भावयति । 'णिचश्च' (सू २५६४) इति कर्तृगे फले आत्मनेपदम् । भावयते | भावयाम्बभूवे |


अथ 'हेतुमति च' इति णिज्विाधि वक्ष्यन् हेतुसंज्ञा आह । तत्प्रयोजको हेतुश्च ॥ 'स्वतन्त्रः कर्ता' इति पूर्वसूत्रोपात्त. कर्ता तच्छब्देन परामृश्यते । तस्य कर्तु. प्रयोजक: प्रवर्तयिता तत्प्रयोजकः । तदाह । कर्तुः प्रयोजको हेतुसंज्ञ इति ॥ चकारः पूर्वसूत्रोपात्ता कर्तृसंज्ञा समुच्चिनोति । तदाह । कर्तृसंज्ञश्चेति ॥ देवदत्त. पचति तप्रेरयति यज्ञदत्तः इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधि । प्रयोजकस्य प्रयोज्यकर्त्रा अन्यथा सिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः । हेतुमति च ॥ 'सत्यापपाश' इत्यतो णिजित्यनुवर्तते। हेतुः प्रयोजक आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थ .। 'धातोरेकाचो हलादेः' इत्यतो धातोरित्यनुवर्तते । तदाह । प्रयोजकव्यापार इति ॥ प्रेषणादावित्यादिशब्देन अध्द्येषणानुमत्युपदेशादीना ग्रहणम् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् । आज्ञेत्यर्थः । समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्द्येषणा । अनुमतिः राजादेः सम्मतिः । ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना उपदेशः । हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापार . । प्रयोजकनिष्ठप्रवर्तनाया णिजिति फलितम् । एते तु विशेषाः प्रकरणादि न अवगम्यन्ते । कुलालो घटङ्करोतीत्यत्र तु न णिच् । प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेः इत्यन्यत्र विस्तर.। भवन्तमिति ॥ देवदत्तो यज्वा भवति । तम्प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादि प्रयोजकः तन्निष्ठायां प्रेरणायां भूधातोर्णिच् वृध्द्यावादेशौ। भावीति णिजन्तम् । तस्माद्भवनानुकूलव्यापारार्थकात् लटि भावयतीति रूपम् । भवन्तम्प्रेरयतीति फलितोऽर्थः । भावयाम्बभूवे इति ॥ कर्तृगामिति क्रियाफले णिजन्तस्यात्मनेपदित्वात् अनुप्रयुज्यमाना-