सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
47
तर्ककाण्डः

पक्षयात्र रसं व्यवच्छिनति, तथा भूभागदर्शननियमोऽपि भूभागविधिमात्र व्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात् ; व्यवच्छेदे वा सर्वस्य ’ व्यव- च्छेदः । तस्मात्_ दृश्यव्यवच्छेदेऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममा त्रम् । तथा चास्मान्तरव्यवच्छेदोऽपि न ततः सिद्धिमुपाश्रुते । कामं विधेर्विघेयासर्वव्यवच्छेदरूपत्वात् तदभावो व्यवच्छिद्यत ; नामान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता । नैकस्य बहव आस्मान इति चेत् , अन्य तस्तर्हि विरोधायचच्छेदः; न दर्शननियमात् । असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोधः? इतरेतराश्रयं वा ; तस्मान्नैकविधिरन्यध्यव च्छेदः । अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्श- नभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् ।

ननु प्रकृत्यैव भिन्ना भावाः तांस्तद्विधान् विदधदेव दर्शनं परस्प रतो व्यावर्तयति ; न हि व्यावृत्तिरन्या व्यावृत्तिमतः; तत्र व्यावृत्रिम द्विधौ ‘सापि विधीयत एव ; यप्रकृतिः त्वद्य यः पदार्थः स तयैव प्रकृत्या विधेयः; अन्यथा न तस्य विधिः स्यात्; व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते ; तस्मात् तथैव विधीयन्त इति । अत्राप्य- संस्पृष्टनिर्भासनादसंसृष्टखभावत्वे दृश्यादृश्ययोरविशेषेण व्यवच्छेदस्तद- वस्थः । अपि च

न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।
अरूपेण च भिन्नत्वं वस्तुनो नावकरुपते ॥ ५ ॥

न व्यावृत्तिर्वस्तुखभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या 'एकस्या अनेकवृत्तेर्वस्तुखभावत्वे वस्तूनामपि भेदो न स्यात्; नैकस्मादभिन्नमभिन्नस्वभावं मिनं युज्यते तद्वदेव । अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरस्थीयते, तथापि व्यावृत्तेररूपत्वात् स्वरूपेण न भाव व्यावत्ताः स्युः । अपरः कल्पः ----भेदः परस्परानामखभावःस

चेद्वस्तुनः स्वभावः वरतूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् । अपरः


1 B omits भ

2 B omits स्य

3 तथापि चा-A and C

4 A omits अपि; B omits सापि

5 सृष्ट-A and O

6 B omits प्रतिज्ञायते

7 B omits-एकया

8 श्रीयते—A

9 अभावात्मकत्वञ्च नात्—B; अभावा तमनोऽप्रतिज्ञा ना=O