प्रकारः-भेदश्चेद्वस्तुनः खभावः, नैकं किंचन वस्तु स्यात्, भेदेनैकत्वस्य विरोधात् । परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च तत्समुच्चय रूपोऽनेकोऽप्यस्यात्मा नावकल्पते ; तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासं भवाच्च बस्तुनो निःखभावत्वप्रसङ्गः । अन्या व्याख्या द्वितीयार्धस्य —व्यति रेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते ; वस्तुगत एष विमागः -तल्वभावत्वम . न्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदेऽवतारमर्हति । त था हि-तवान्यत्वाभ्यामनिर्वचनीयोऽनादिविकल्पवासनोपादानविकल्पपरि- दर्शितशरीरः ‘अयमस्माद्भिन्नःअयमनयोर्भदः’ इति व्यवहारं प्रवर्तयति ; न भेदो नाम काचिद्वस्तु, यस्य तवमन्यत्वं वा ‘किंचिद्विचार्येत । तत्रेदं ? पुनरुपतिष्ठते- अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते । यदि तरूपो निःखमावो मेदः --न हि वस्तुखित्यास्ति, विकल्पैरेव केवलमुपदर्यते –न तर्हि वस्तुनो भिन्नत्यम् , परमार्थतो भेदाभावात्; न हि कल्पितेन स्वभावेन पारमार्षिी तद्वत्ता युज्यते; कर्पितैव स्यात् । तदेतदस्माभिरुच्यमानं कि मिति भवान्नानुमन्यते ? बयमप्येतदेव ब्रूमः--न भेदो भावतोऽस्ति, अनाच- विद्याविलसितमेतदिति ।
यदुक्तम्--भेदारमत्वे वस्तुन एकवस्त्वभावः; तदभावादितरस्यापीति बस्वभावः; तत्राहुः--परापेक्षा वस्तुनो ‘भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात् ; स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्न मिति । तत्रोच्यते
पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ॥ ५६ ॥
नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन् ; न खल स्वधेतुप्रापितोदयेषु वभावव्यवस्थितेषु वस्तुषु स्वभावंस्थितये वस्त्वन्तरापेक्षा युज्यते । तत्र पुरुषप्रत्यय घर्मेऽयम् । न च पुरु यप्रत्ययानुविधायीनि वस्तूनि, खहेतुभ्यः 10. खखभावव्यवस्यितेः । अतो न . तदनुसारेण वस्तुरूपं व्यवतिष्ठते । व्यवस्थितवस्तुखरूपानु- सारेणैव तस्य व्यवस्था न्याय्य, तत्पूर्वकत्वात् । परस्परापेक्षायां च
1 वेति-A 2 Ind B 3 B and c omit प्र |
4 A omits किचित् 5 विचार्यते-B and c 6 B omit= न 7 |
8 भेद-4 9 A adds व 10 A and B it स्व 11 condit स्व |