हेतुः ? लैौकिकास्तु शब्दाः प्रमाणान्तरापेक्षा 'वार्यमभिदधतीति युक्त तेषां तदनुसारिणी वृत्तिः । तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम् , " 'पौर्वापर्यं पूर्वदौर्बल्यम्” इति वा रजतज्ञानस्येव पूर्वस्य बाषः? न वक़ रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा । कथं तर्हि वेदे गुणवादः ? यत्र शीतैरर्थैः प्रमाणार्थनिष्पत्तेरसंमवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात् तया प्रमाणविषयलाभः; यत्र तु शब्दाः स्वरसेन लभन्ते विषयम् , तत्र न प्रमाणान्तरविरोधादपावर्तन्ते ; न वेषां प्रमाणान्तरनिबन्धनोऽर्थः, येन तद्वशादपावर्तेरन् ।
अथ मतम्--उभयानुग्रहदेवं कल्प्यते; एवं हि शब्दः प्रत्यक्षादय आनुगृहीता भवन्ति ; अन्यथा प्रत्यक्षादयोऽत्यन्तमेव बाधिताः स्युः । नैतत् सारम् ; प्रमाणसामथ्र्यानुसारेण प्रमेये काचित् कल्पना स्यात्; प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति । तस्मात् प्रमाणा नुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात; नोभयमनु ग्रहीतव्यमिति प्रमाणमस्ति । ते एव प्रमाणे इति चेत्--यदि मतम्, न प्रमाण स्य प्रमाणान्तरादनुग्राह्यत्वम्; अपि तु स्वत एव प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना–यथा तर्हि ततोऽयोऽवगम्यते तथा व्यवस्थापनीयः ; एवं तदनुगृहीतं भवति ; अन्यथा बाधितं स्यात् । अप्रमाणिका चार्य- व्यवस्था, ततः स्वरसेनाप्रतीतेः अन्यस्य चाभावात् । इतरेतराश्रयप्रसङ्ग च; प्रामाण्यात् सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपथा कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम्ऽ खरसलभ्ये स्वर्थे प्रततित एव प्रामाण्यमिति नेतरेतराश्रयता । तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः ; नोत्तरस्य विषयान्तरकल्पना । न खलु रजतज्ञानानुग्रहाय 'शुक्तिशकलज्ञान स्य गोचरोॐऽपरः कल्प्यते । न च प्रत्यक्षादीनामनन्यगतित्वादनवकाश- त्वम् या वल रजतादिविश्रमणां गतिः, सा तेषामपि ; यदि तेषामुप चारितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तया ; अयासवात् तस्या विगय अविद्यमानार्थाः ; प्रत्यक्षादयोऽप्येवम् । तस्मादविवक्षितार्यत्वमुप
1 स्वमर्थ–4 2 Mina-SE, 6–5-54 3 उभयत्रानु-B |
4 मष.A 5 कल्पनावाः-A 6 पनात--A and B |
7 शुक्तिक–A and c 8 अपरोऽपि-A and B |