५१४ । पुरः कुषन् । “पुर अग्रगमनेः' पुरुषः । “अन्येषामपि
(सू ३५३९) इति दीर्घः । पूरुषः ।
५१५ । पृनहिकलिभ्य उपच । परुषम् । नहुषः । कलुषम् ।
५१६ । पीयोरूषन् । पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्रुणे पेयूषोऽभिनवं पयः ।
५१७ । मस्जेनुम्च । मजूषा ।
५१८ । गाडेश्च । गण्डूष:-गण्डूषा ।
५१९ । अतंररुः । अररुः शत्र । अररू । अरवः ।
५२० । कुट: किञ्च । कुटरुर्वस्रगृहम् । कित्त्वप्रयोजनं चिन्त्यम् ।
५२१ । शकादिभ्योऽटन् । शकटोऽस्त्रियाम् । ककिर्गत्यर्थः । कङ्कटः संनाहः । देवटः शलपा । करट इत्यादि ।
५२२ ।। कृकदिकडिकटेिभ्योऽम्बच् । करम्बं व्यामिश्रम् । कदिकडी सैौत्रैौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।
५२३ । कदेर्णित्पक्षिणि । कादम्बः कलहंसः ।
तरङ्गे स्यादवकाशे सुखे द्वयो' इति विश्वमेदिन्यौ । पुरः ॥ “पुरुषः पुरुषे साङ्खयज्ञे च पुन्नाग पादपे' इति विश्वमेदिन्यौ । पृनहि ॥ परुष कबुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत्' इति मेदिनी । नहुषेो राजविशेषे नागभिद्यपि' इति हेमचन्द्र । चित्स्वरेणान्तोदात्तत्वे प्राप्त ग्रामादित्वात् वृषादित्वाद्वा आद्युदात्तोऽयम् । “एतच “देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् । “कलुष त्वाविलैनसो” इति विश्व . । पीयो ॥ “पीयूष सप्तदिवसावधिक्षीरे तथा ऽमृते' इति मेदिनी । 'पियूष' इत्यादिस्त्वमर । मस्जेः ॥ 'पिटक पटकः पेटा मञ्जूषा इत्यमर । गडेश्व ॥ 'गण्डूषो मुखपूतोम्भ पुष्करप्रसृतोन्मिते' इति मेदिनी । अतंररु ॥ उकारान्तोऽय प्रत्ययः । न तु सकारान्त इति स्फोरयति । अररुः इत्यादिना ॥ युक्तचै. तत् । “कञ्चिद्वाविररु शूरमर्यम् । अपाररुमदेवयजनो जहि' इत्यादिमन्त्रेषु तथा दर्शनात् । यतु 'मानः शस्सा अररुषः ’ इत मन्त्रस्य भाष्य सान्ताऽयामात माधवनात् तत्प्राढवादमात्र न तु वास्तवम्, पदस्याद्युदात्तत्वानुपपत्तिप्रसङ्गात् । उक्तप्रयोगस्य कसन्तन रातिना नञ्समासे सौष्ठवात् । 'गुरुद्वषा अररुष दधान्त ' इयत्र स्वयमव तथा व्याख्यानात् । “यो नोऽग्रे अररिवाम् अघायु' इत्यादिमन्त्रान्तरसवादाचेति दिक । ‘कृीवेऽनः शकटोऽस्त्री स्यात्' इत्यमरः। करटो गजगण्डे ख्यात्कुसुमे निस्वजीविनि । एकादशाहादिश्राद्धे दुरूढेऽपि वायसे' इति मेदिनी । कृषकदि ॥ “करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु' इति विश्व । “कदम्ब निकुरुम्बे स्यान्नीपसर्षपयो. पुमान्’ इति मेदिनी । 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः पुमान्’ इति च । कदेः ॥ 'कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि ना' इति मेदिनी ।