सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१४
[उणादिषु
सिध्दान्तकौमुदीसहिता


३०९ । स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच् । “ अयामन्त-' (सू

२३११) इति णेरयादेशाः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नु । गदयित्नु वावदूकः । मदयित्नुः मदिरा ।

३१० । कृहनिभ्यां क्त्नुः । कृत्नुः शिल्पी । हत्नुव्र्याधिः शस्रञ्च ।

३११ । गमेः सन्वच । जिगत्नुः ।

३१२ । दाभाभ्यां जुः । दानुदोता भानु ।

३१३ । वचवेगेश्च । वग्नुः ।

३१४ । धेट इच । धयति तामिति धेनुः ।

३१५ । सुवः कित् । 'सूनुः पुत्रेऽनुजे रवौ'

३१६ । जहातेद्वेऽन्तलोपश्च । जहुः ।

३१७ । स्थो णुः । “स्थाणुः कीले स्थिरे हरे ' ।

३१८ । अजिष्ठरीरिभ्यो निच । अजेवीं वेणुः । वर्णर्नद्देशभेद्योः । रेणुर्द्धयोः स्त्रियां धूलिः


अमरोक्तमाह । तल्पमिति ॥ स्तनिहृषि ॥ स्तनगदी देवशब्दे । चुरादिण्यन्तौ । 'हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः ।’ घटादिः । “स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी । 'हर्षयित्नुः सुने हेन्नि पोषयित्नु द्विजे । स्तनयित्नुः पयोवाहे तद्वनैौ ' Iपक मृगरोगयोः' इति विश्वः । 'गदयित्नुः पुमान् कामे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ । मदयित्नुः कामदेवे पुमान् मद्ये नपुसकम्' इति मेदिनी । कृहनिभ्यां त्नुः ॥ कृत्नुरिति ॥ कर्तेत्यर्थः । कित्वान्न गुणः । हत्नुरिति ॥ अनुदात्तेत्यादिना अनुनासिकलोपः । एवमुत्तरत्र गमेरपि । शख्त्रञ्चेति ॥ चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहित पठित्वा कृणुः कर्ता हनुर्वत्रैकदेशः । बाहुलकान्नलोपः । गमेस्तु जिगत्नुरित्युदाहृतम् । तत्सर्वं प्रामादिकम् । लक्ष्य विसवादात् । तथा च श्रूयते । 'सुरूपकृत्नुमूतये । ज्येष्टराज भरेकृत्नुम् अयवृत्नुरगृभीतः । मा नो वधाय हत्नवे । मृग न भीममुपहत्नुमुग्रम् । यो न. सनुत्यः उत वा जिगत्नुः' इत्यादि । अत एव हन्तिधातु विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य वक्त्रोः कित्त्वादजुनासिकलोप इत्युक्तम् । यत्तु तेनैव “सुरूपकृत्नुम्' इति मन्त्रे विवृण्वता तकारोपजनश्छान्दस इत्युक्तम् । तद्दशपादीवृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयम् । दाभाभ्यां नुः ॥ दानुर्दातरि वक्रान्ते' इति मेदिनी । “भानू रश्मिदिवाकरौ' इत्यमरः । वचेः ॥ वनुर्वक्ता । धेटः ॥ “धेनुस्यान्नवसूतिका' इत्यमर । विश्वोक्तिमाह । सूनुरिति ॥ जहाते ॥ 'जहुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने' इति मेदिनी । विश्वोक्तिमाह । स्थाणुरिति ॥ 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी । अजिवृ ॥ 'वेणुपान्तरे वशे' इति विश्वः ।