पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६१५
बालमनोरमा ।


३१९ । विषेः किच । विष्णुः ।

३२० । कृदाधारार्चिकलेिभ्यः कः । बाहुलकान्न कस्येत्संज्ञा । “ककॉ धवलघोटक:’ । दाको दाता । धाकोऽनड़ानाधारश्च । राका पौर्णमासी । अर्क । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि' ।

३२१ । सृष्ठभूशुषिमुषिभ्यः कक् । “ सृक उत्पलवातयोः' । “ वृकः भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम्

३२२ । शुकवल्कोलका । शुभरन्त्यलाप । शुकः । “ वल्कं वल्कल मस्रियाम्' । “ उष दाहे' । षस्य ल: । उल्का ।

३२३ । इण्भीकापाशल्यतिमर्चिभ्यः कन् । “ एके मुख्यान्यकेवलाः' । भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ । काक । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।


रेणुः स्त्रीपुसयोधूलौ पुलिङ्ग* पर्पटे तु ना’ इति मेदिनी । विषेः किच ॥ चकारान्नित् । आद्युदात्तः । ‘विष्णुरित्थाप्रविष्णवे शूषम्’ । कृदा ॥ * कर्कः कर्के तले वह्नौ शुङ्काश्चे दर्पणे घटे इति विश्वमेदिन्यौ । 'राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् । सपूर्णेन्दुतिथावपि' इति मेदिनी । “राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च' इति विश्वः । इह दाधारा एषा ‘केण.’ इति हस्वोऽपि बाहुलकान्नेति बोछद्यम् । “अर्कोऽर्कपर्णे स्फटिके रवौ ताम्र दिवस्पतौ' इति विश्वमेदिन्यौ । “कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके । विटकिट्टयोश्च पापे च त्रिषु पापाशये पुनः’ इति मेदिनी । बाहुलकात् रमेरपि कः । 'रङ्कः कृपण मन्दयोः' इति मेदिनी । कपिलकादित्वाछत्वं टाप् । “लङ्का रक्षःपुरी शाखाशाकिनी कुलटासु च' इति विश्वमेदिन्यौ । ससृवृ ॥ “सृका बाणोत्पलवाता' इति हेमचन्द्रः । सृक संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृक सरणशीलम् । पविं वज्र सशाय सम्यक्तीक्ष्णीकृत्येति व्याख्यातम् । भूक छिद्रे च काले च' इति मेदिनी । 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुसि ग्रन्थिपणे नपुंसकम् । वल्कं वल्कलशल्कयोः’ इति च । उल्का ज्वाला विभावसोः' इति भूतिचन्द्रः । इण्भी ॥ 'एकं सङ्खयान्तरे श्रेष्ठ केवलेतरयोत्रिषु' इति मेदिनी । “काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदे द्वीपभेदयोः । काका स्यात्काकनासायाङ्काकोलीकाकजङ्कयोः । रक्तिकाया मलव्याञ्च काकमाच्या च योषिति । काक सुरतबन्धे स्यात् काकानामपि सहतौ' इति विश्व मेदिन्यौ । पाकः परिणतौ शिशैौ । केशस्य जरसा शौकल्ये स्थाल्यादौ पाचनेऽपि च । शल्कन्तु शकले कल्के' इति मेदिनी । “शल्कैरन्निमिन्थानः’ इति मन्त्रे काष्ठखण्डैरिति व्याख्या तारः । मर्क इति ॥ मचैिः सौत्रो धातुरिति बहव । “मर्च शब्दे’ चौरादिक इति मिदचो न्यात्सूत्रे कैयटः । मत मर्त भर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भत्र्सयतीति वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावात्कत्व न स्यात् इति वाच्यम् । पूर्वत्रासिद्धे