२३२। सुयुरुट्टो युच् । सवनश्चन्द्रमाः । यवनः । रवणः कोकिलः। वरणः।
२३३ । अशे रश च । अश्रोतेर्युच्स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।
२३४ । उन्देर्नलोपश्च । ओदनः ।
२३५ । गममेगोश्च । गमेर्युच्स्याद्रश्चादेश: । गगनम् ।
२३६ । बहुलमन्यत्रापि । युच्स्यात् । स्यन्दनः । रोचना ।
२३७ । रञ्जः क्युन् । रजनम् ।
२३८ । भूसूधृभ्रस्जिभ्यश्छन्दसि । भुवनम् । सुवनः आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृञ्जनमम्बरीषम् ।
२३९ । कृपृष्टजिमन्दिनिधावः क्युः । किरणः । पुरणः समुद्रः । वृजन मन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।
सुयु ॥ “सवनन्त्वध्वरे स्राने सोमनिर्दलनेऽपि च' इति मदिनी । 'रवण. शब्दने खरे' इति च । “वरणस्तित्क्तशाकेऽपि प्राकारे वरण वृतौ' इति विश्व । ‘वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः' इत्यमर । अशे रश च ॥ जिद्वेति ॥ 'रस आस्वादने' चौरादिक. । ततो नन्द्यादित्वाल्ल्युः । ‘ण्यासश्रन्थः’ इति युज्वा । “ अथ रसन स्वादने ध्वनौ । जिह्वायान्तु न पुसि स्यात् रास्राया रसना स्त्रियाम्' इति मेदिनी । एषा दन्यतालव्यवतोर्द्धयोरर्थव्यवस्था भूरिप्रयो गाभिप्रायेणोक्ता । वस्तुतस्तु द्वावप्यर्थद्वये साधू। तथा हि । “तालव्या अपि दन्त्याश्च शम्बशम्ब लशूकरा । रशनापि च जिह्वायाम्' इति विश्वकोशाजिह्वायामुभयम् । “रसन निस्वने स्वादे रसन्ना काञ्चिजिह्वयोः' इत्यजयधरणिकोशाभ्यां काञ्च्यामुभयं साधु । 'रसनं स्वदने वाथ रसना काश्चिजिह्वयोः । रसनश्चापि रास्रायाम्' इति विश्वप्रकाशाचेति दिक् । एवञ्चेह सूखे अशा व्याप्तौ अश भोजने' इति धातुद्वयमपि प्राह्यम् । “ रस आस्वादने' “रस शब्दे' इति धातुभ्यां बहुलमन्यत्रापि ' इत्यनुपद वक्ष्यमाणो युच् । तेन सर्वत्रावयवार्थानुगमोऽपिसूपपाद् इत्यवधेयम् । उन्देः ॥ 'ओदन न स्त्रिया भत्ते बलायामोदनी स्त्रियाम्' इति मेदिनी । बहुलम् ॥ स्यन्दनन्तु त्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम्' इति मेदिनी । 'रोचना रक्तकल्हारे गोपि त्तवरयोषितो । रोचनः कूटशाल्मल्यां पुसि स्याद्रोचके त्रिषु' इति च । “चदि आहादने ' । चन्दन मलयोद्रवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी' इति विश्व । “चन्दनी तु नदीभेदे । चन्दनोऽत्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी । भद्रकाली ओषधि विशेषः । '। ' भद्रकाली तु गन्धोल्या कात्यायन्यामपि स्त्रियाम्' इति मेदिनी असु क्षेपणे असन क्षपणे कृीब पुंभि स्याज्जीवकदुमे' इति मेदिनी । 'अत सातत्यगमने' । राजपूर्व । राजातनः क्षीरिकाया प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ । एवमन्येऽपि द्रष्टव्याः । रजेः क्युन् ॥ बाहुलकात्कृपेरपि । लत्वाभावश्च । कृपणः । भूसू ॥ बहुलवचनाद्भाषायामपि । भुवन विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी । कृपृ ॥ 'निधनं स्यात्कुले नाशे' इति