पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०६
[उणादिषु
सिध्दान्तकौमुदीसहिता


२४० । धृषेर्धिष् च संज्ञायाम् । धिषणो गुरुः । धिषणा धी

२४१ । वर्तमाने पृषद्वहन्महज्जगच्छतृवत् अतिप्रत्ययान्ता सेचने ' गुणाभाव पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत्

२४२ । संश्चत्तृपद्वेहत् । एते निपात्यन्ते । पृथकरणं शतृवद्भावनिवृत्त्यर्थम् सचिनोतेः सुट् । इकारलोप संश्चत् कुहकः । तृपत् छत्रम् । विपूर्वात् हन्ते ष्टिलोपः इत ए च । । वेहद्भोपघातिनी

२४३ जरसानः पुरुष

२४४ । ऋञ्जिष्ठधिमन्दिसहेिभ्यः केित् । ऋजसानो मेघ पुरुषः । मन्दसानाऽामजीवञ्च । सहसाना यज्ञा मयूरश्च

२४५ । अर्तेर्गुणः शुट् च । अर्शसानोऽन्नि

२४६ ॥ सम्यानच्स्तुवः । संस्तवानां वाग्मी


मेदिनी । “नि इति हेमचन्द्र । धृषे धषणत्रिदशाचार्ये धिषणा धियि योषिति’ इति मेदिनी । वर्तमाने ॥ ‘पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी । “बृहती क्षुद्रवार्ताक्या कण्टकायञ्च वाचि चव वारिधान्यां महत्याञ्च छन्दोवसनभेदयो ' इति विश्व. । शतृवद्रावात् ‘उगिदचाम्’ इति नुम् बृहत् विपुलम् । 'महती वलकीभेदे राज्ये तु स्यान्नपुसकम् । तत्त्वभेदे पुमान् श्रेष्ठ वाच्यवत् इति मेदिनी । महती नारदीया वीणा । “अवेक्षमाणं महती मुहुर्मुहुः’ इति माघ द्विष्टपे कीबं वायौ ना जङ्गमे त्रिषु । जगती भुवनेन क्ष्मायां छन्दोभेदे जनेऽपि च' इति मेदिनी तत्र वायुवाचिनः पुंलिङ्गस्य नुमि जगन्-जगन्तौ-जगन्तः इत्यादि दुद्युगमिजुहोतीनान्द्वे च इति व्युत्पादितस्य तु नुमभावात् जगत्-जगतावित्यादि । सञ्चिनोतेरिति ॥ सुभूतिचन्द्रस्तु सम्पूर्वाच्छूयते सश्रदिल्याह । तृपत छत्रमिति चन्द्रमा इत्यन्य वृषस्व' इति मन्त्रे तु तृपच्छब्दो यौगिक' । तृप्यन्नित्यर्थः । वेदभाष्ये तु तौदादिकात् तृपते शतृप्रत्यये आगमशास्रस्यानित्यत्वान्नुमभाव इत्युक्तम् । तत्प्रौढिवादमात्रम् । एतेन “त्वमस्य ब्राह्मणादातृपत्पिब' इत्यादि मन्त्रान्तर व्याख्यातम् । गौरित्यनुवृत्तौ ‘वेहद्भभपघातिनी' इत्यमर छन्दस्य ॥ ‘शु गतौ, जूष् वयोहानै एतेन ‘प्रमन्महे' इत्यादिमन्त्रद्वये गन्तृपरतया सौष्ठवे बाहुलकोपष्टम्भेन क्रिष्टव्याख्यान नातीवादर्तव्यम् । ऋजिवृधि ॥ ऋजि भर्जने । इदित्वान्नुम् । तत एव नलोपाभाव एवञ्च अय मन्दिसही चव पूर्वसूत्रे एव पठितु योग्याः । कित्त्वन्तु वृद्धावेवोपयुज्यते उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम्, अर्तेः शुट च वृधेकिदित्युक्तौ सर्वसामञ्जस्यात् । ऋञ्जसानो मेघ इति ॥ 'ऋञ्जसानः पुरुवार उक्थै अस्मिन् मन्दसामा वृषज्ञे वसु' इत्यादिमन्त्राणा भाष्ये तु यौगिकार्थ एव पुरस्कृत धातोर्गुणः । प्रत्ययस्य शुडागम आसाविषदर्शसानाय शरुम्' इति मन्त्रस्य भाष्ये