सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५७५
बालमनोरमा ।

पित्तम् । स्वादुः । सान्नेोति परकायै साधुः । अश्नुते आशु शीघ्रम् । 'आशुत्राहः पाटलः स्यात् ' ।

२ । छन्दसीणः । 'मा न आयैौ' ।

३ । दृसनिजनिचरिचटिभ्यो झुण । दीयेत इति दारु । “स्नुः प्रस्थ सानुरास्त्रियाम्' । जानु-जानुनी । इंह 'जनिवध्योश्च' (सू २५१२) इति न निषेधः । अनुबन्धद्वयसामथ्र्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृग यवादित्वात्कुप्रत्यये 'चटु' इत्यपि ।

४ । किञ्वरयोः श्रीणः । किं श्रृणातीति किंशारुः सस्यशार्क, बाणश्च । जरामेति जरायुर्गर्भाशयः । “ गर्भाशयो जरायुः स्यात् ' ।

५ । त्रो रश्च लः । तरन्त्यनेन वर्णा इति तालु ।

६ । कृके वचः कश्च । कृकेन गलेन वक्तीति कृकवाकुः । 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः ।


शब्दोऽपि मायुः । ‘यत्पशुर्मायुमकृत गोमायुरेको अजमायुरक' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यानात् । स्वदते रोचते इति स्वादु । विशेष्यनिन्नोऽयम् । एव साधुरपि । आशु शीघ्रमिति ॥ विलम्बाभावमात्रपरत्वे कीब, तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् । अथ शीघ्रमित्युप क्रम्य “कृीबे शीघ्राद्यसत्त्वे स्यातूिष्वेषा भेद्यगामि यत्' इत्यमर व्रीहौ तु पुंस्येव छन्दसीणः ॥ उणनुवर्तते । मा न आयाविति ॥ आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः । अत एव “त्वामझे प्रथममायुमायवे । मानस्तोक' इत्यादिमन्त्रेषु वदभाष्ये तथैव व्याख्यातम् । अर्वाचीनास्तु “छन्दसीण.’ इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तते इति स्वीकृत्य “ आयुजीवितकालो ना' इत्यमरग्रन्थे आयुशब्दमुकारान्त व्याचख्युः । 'वायुना जगदायुर्वा' इति वर्णविवेकः । ‘एतेर्णिच' इत्युप्रत्ययः। सकारान्तो वक्ष्यमाण आयुश्शब्दस्तु लोक वेदयोर्निर्विवाद एव । अत एव जटा आयुरस्येति विग्रहे 'गृध्र हत्वा जटायुषम्' इति प्रयोगः । कथन्तर्हि, “मा वधिष्ट जटायु माम्' इति भट्टि । “तटी विन्ध्यस्याद्रेरभजत जटायोः प्रथमज ’ इति विन्ध्यवर्णने अभिनन्दश्चेति चेत् । अर्वाचीनमते तावद्रमेव । वस्तुतस्तु जटां याति प्राझेोतीति जटायुः । मृगय्वादित्वात् कु । आयातीलयायुः । 'जटायुषा जटायुश्च विद्यादायु न्तथायुषा' इति द्विरूपकोशः । चाटिति ॥ 'चटु चाटु प्रिय वाक्यम्' इति हट्टवन्द्र । “चाटु वाकृतकसम्भ्रममासाङ्कार्मणत्वमगमद्रमणेषु” इति माघ । “चाटुनैरि प्रियोक्ति स्यात्' इति रन्नमालाकोशः । नरि पुसि । ‘चकर च बहुचाटून् प्रौढयोषिद्वदस्य' इति माघ । इह सूत्र रहिमपि पठित्वा राहुरित्येके । बाहुलकादिति तु बहव । सस्येति ॥ 'किशारुन सस्यशूके विशिखे कङ्कपक्षिणि ' इति मेदिनीकोशः । त्रो रश्च लः ॥ त्र इति तरतेः षष्ठया निर्देशः । के वितु त्रैरिति च्छित्वा ऋधातोरपि प्रश्लेषात् इयर्ति अर्यते वा आलुः । शाकविशेषो घटी