३११८ । भुवश्च । (३-२-१३८)
छन्दसीयेव । भविष्णुः । कथं तर्हि *जगत्प्रभोरप्रभविष्णु वैष्णवम् इति । निरङ्कशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णु. । नैतद्भाष्ये दृष्टम् ।
३११९ । ग्लाजिस्थश्च क्लुः । (३-२-१३९)
छन्दसीति निवृत्तम् । गिद्यं न तु कित् । तेन स्थ ईत्वं न । ग्लास्नुः । गित्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भव । **युकः किति' (सू २३८१) इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः । “दंशेश्छन्दस्युपसङ्ख-यानम्’ (वा २१२९) ।
३१२० । त्रसिगृधिधृषिक्षेिपः क्नुः । (३-२-१४०)
त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ।
३१२१ । शमित्यष्टाभ्यो घिनुण । (३-२-१४१)
उकार उचारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा-शमिनीतरा इत्यत्र 'उगितश्च' (सू ९८७) इति ह्रस्वविकल्पः ।
पृधातोण्र्यन्तादिष्णुचि णेलपम्बाधित्वा “अयामन्ताल्वाय्य' इयय् । इद सूत्रं वैदिकप्रक्रिया यामेव व्याख्यातुमुचितम् । भुवश्च ॥ छन्दसीत्येवेति ॥ भूधातोरिष्णुच् स्यात् । तच्छी लादिषु छन्दसीत्यर्थः । अण्यन्तार्थ आरम्भ । ग्लाजिस्थश्च ॥ निवृत्तमिति । व्याख्या नादिति भावः । चात् भुव इत्यनुकृष्यते । ग्ला, जि, स्था, एषान्द्वन्द्वात्पञ्चमी । ग्ला, जि, स्था, भू इत्येभ्यः क्स्नुः स्यात् तच्छीलादिष्वित्यर्थः । ककार इत् । स्थाम्नु इत्यत्र कित्वलक्षण ‘घुमास्था’ इतीत्वमाशङ्कय आह । गिद्यमिति ॥ सूत्रे चत्वेन ककारनिर्देश इति भावः । गित्वान्न गुण इति ॥ 'क्कूडिति च' इत्यत्र गस्य चत्र्वेन ककारान्तरप्रश्लषादिति भाव । ननु भूष्णुरित्यत्र इट् स्यात्, “श्रयुक किति' इति कित एव इण्निषेधात् । अस्य च गित्त्वादित्यत आह । श्-युक इति ॥ प्रश्लेषादिति ॥ चत्वेनेति भावः । त्रसिगृधि ॥ तच्छीलादिषु कर्तृ विति शेष ! त्रस्नुरिति ॥ नडुशीति नट। गृध्नुः धृष्णुरि यत्र कित्वान्न गुणः शमित्यष्टाभ्यः ॥ इतिशब्दः आदिपर्यायः । शमादयः दिवादौ स्थिताः । तेभ्यः अष्टाभ्यो घिनुण् स्यात् तच्छीलादिष्वित्यर्थ । धित्वमुत्तरसूत्रार्थम् । “ अकर्मकेभ्य एव घिनुण्” इति भाष्यम् । शमिनितरा-शामिनीतरेति ॥ शमिन्शब्दात् त्रियान्नान्तलक्षणडीबन्तात् तरबन्ताष्टाप् । हृस्वविकल्पः इति ॥ भाष्यमते उगित्वाद्रस्वः । काशिकामते तु उगित्वाभावान्न हस्वः । 71