पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६०
[कृदन्त
सिध्दान्तकौमुदीसहिता


३११३ । अर्हः प्रशंसायाम् । (३-२-१३३)

३११४ । आ केस्तच्छीलतद्धर्मतत्साधुकारिषु । (३-२-१३४)

किपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु वाध्या ।

३११५ । तृन् । (३-२-१३५)

कर्ता कटम् ।

३११६ । अलङ्कृञ्जनिराकृञ्प्रजनोत्पचेोत्पतोन्मद्रुच्यपत्रपवृतुवृधुसहचर इष्णुच् । (३-२-१३६)

अलङ्करिष्णुरित्यादि । (निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्प तिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः )

३११७ । णेश्छन्दसि । (३-२-१३७)

'वीरुधः पारयिष्णव ’ ।


अर्हः प्रशंसायाम् ॥ अर्ह इति पञ्चमी । शतृप्रत्यय इति शषे । अर्हन्निति ॥ पूजाम्प्राप्तु यापय इत्यथ । अत्र प्रशस्तस्यव पूजायाग्यत्वात् प्रशसा गम्यत । अभा केस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ आडभिविधौ । तदाह । किपमभिव्याप्येति ॥ भ्राजभासधुर्विद्युनर्जिपृजुग्रावस्तुवः किप्' इति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छी लिकाः प्रत्ययाः प्रायण सोपसर्गेभ्यो नेति ‘आढ्यसुभग’ इति सूत्रे भाष्ये स्पष्टम् । तच्छील तत्खभावः फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मः यस्य स तद्धर्मा । ख धर्मोऽयमिति प्रवर्तमानः । तस्य धात्वर्थस्य साधुकर्ता तत्साधुकारी । तृन् ॥ धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु । तच्छीले उदाहरति । कर्ता कटमिनि ॥ कटकरणक्रियाशील इत्यर्थः । “न लोक' इति षष्ठीनिषेध । “न लाक' इति सूत्रे तृन्नित्यनेन ‘लट शतृ’ इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् । तद्धर्मणि यथा । मण्डयितार. श्राविघ्रायनाः । ऊढां वधू श्राविधायना नाम देशविशेषीयाः वधूमण्डन स्वधर्म इत्यनुष्टातार इत्यर्थः । तत्साधुः कारिणि कर्ता कटमिलेयेवोदाहरणम् । कट साधु करोतीत्यर्थः । अलंकृञ्ज ॥ अलकृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर, एषां द्वादशानन्द्वन्द्वात्पञ्चमी । एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः प्रजनिष्णुः उत्पविष्णुः उत्पतिष्णुः उन्मदिष्णुः रोविष्णुः अपत्रपिष्णुः वर्तिष्णुः वार्धिष्णुः सहिष्णुः चरिष्णुः । णेश्छन्दसि ॥ ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः । पारयिष्णव इति ॥